पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ सिद्धान्तशिरोमणी गोलाध्याये शृङ्गोन्नतिग्रहयुतिग्रहणोदयास्तच्छायादिकं परिधिना घटतेऽमुना हि । नान्येन तेन जगुरुक्तमहीप्रमाणप्रामाण्यमन्वययुजा व्यतिरेककेण । व्याससिद्धान्तेऽपि पञ्चसहस्रमितैवोक्ता । पुराणोक्तभूगोलप्रमाणस्यानुमानादि- प्रमाणविरुद्धस्य विषयान्तरं मृग्यम् । केचित्तु कोटिशब्दस्यानेकार्थाभिधायित्वेन शतपरत्वात् पुराण- गणितशास्त्रयो- रविशेध इत्याहुः । कोटिशतांशं लक्षमभिप्रेत्य तादृशलक्षेन जम्बूद्वीपपरिमाणं वदता बादरायणेन योजनमितमेव तन्मानमुक्तमिति कथं तन्मतेन स्यात् । क्षारसमुद्रोऽपि योजनपरिमाणक एव स्यादिति यत्किञ्चिदेतत् । पौराणिकैः समुदिता पृथिवी ग्रहर्क्षसंस्थानमानगतयः परमार्थंतस्ताः । कल्पान्तरे तु किल सम्प्रति कालबोधशास्त्रोदिताः सुमतिभिः परिवेदितव्याः । इति यदुक्तं तदपि वक्तुमशक्यम् । ब्रह्मदिनान्तरूपब्राह्यलये योजनमात्रभूमि- वृद्धिनाशाभ्युपगमेन सर्वभूमिनाशानभ्युपगमात् । आचार्योऽपि वक्ष्यति- ब्राह्मं लयं ब्रह्मदिनान्तकाले भूतानि यद्ब्रह्मतनुं व्रजन्ति । वृद्धिविधेरह्नि भुवः समन्तात् स्याद्योजनं भूभवभूतपूर्वैः ॥ ब्राह्मे लये योजनमात्रवृद्धेर्नाशोभुवः प्राकृतिकेऽखिलायाः ॥ इति । वर्त्तमानकल्पान्तर्गतानन्तरगतद्वापरान्ते गुरुपुत्रानयने कृष्णोऽर्जुनायेदं प्रदर्शयामासेति व्यासोक्तेर्महाकल्पान्तरविषयमपि वक्तुमशक्यम् । युद्धनिधनं गताः कर्णाभिमन्युदुर्योधनादयः पुत्रभ्रातृदुःखाभितप्तानां धृतराष्ट्रपाण्डवादीनां प्रदर्शिताः । कर्णादिस्त्रीणां सम्पूर्ण रात्रिमध्ये कर्णादिमिलनमचिन्त्य तयो वीर्येण येन बादरायणेन विहितस्य मुनेः 'पञ्चाशत् कोटिविस्तीर्णं भूमण्डलमिति, पुराणप्रतिपादनं पञ्चसहस्रमित- भूपरिमाणमिति, स्वसिद्धान्तप्रतिपादनादभिप्रायान्तरमाक्षिपति । अस्मदादिनिवास- भूमेविश्वमयविराट्स्वरूपान्तर्गत भूमिरन्यैव भवितुमर्हति । कुरुक्षेत्रेऽर्जुनाय भगवता भक्तजनमनःक्लेशापहारिणा हरिणा “दिव्यं ददामि ते चक्षुः पश्य ये योगमैश्वरमिति" भगवद्गीताश्रवणात् । हस्तनापुरे दुर्योधनसभायां जात्यन्धाय धृतराष्ट्राय चक्षुर्वितीर्य विश्वरूपं प्रदर्शितं तत्र कर्णदुर्योधनादयोऽपि प्रदर्शिता इति उद्योगपर्वश्रवणाच्च । एकार्णवीभूतं भूतलमिदमवलोक्यास्मिन् भूतले कुत्रापि स्थितिमलभ- मानेन मृकण्डमुनिना लीलया शिशुत्वमापन्नस्य हरेरुदरं प्रविश्य च विश्वरूपं दृष्टमिति भारत श्रवणाच्च । विश्वमयस्वरूपान्तर्गता भूमिः पञ्चाशत्कोटिविस्तीर्णा । तस्याञ्च समुद्रात् समुद्रो द्विगुण: द्वीपाच्च द्वीपो द्विगुणस्तत्र च सूर्याच्चन्द्र उपरिग इति न किञ्चिविरुद्धम् । भूतले घट: प्रदर्शित इत्यनेन भूतलाच्च घटभेदप्रतीतिरिव कुरुक्षेत्रे विश्वरूपप्रदर्शित मित्यनेनास्मदादिनिवासभूमेविराट् स्वरूपान्तर्गता भूमिभि न्नैव । सा च भूमिदिव्यचक्षुर्गायैव । विराट् स्वरूपान्तर्गंतब्रह्माण्डतदन्तर्गतभूवलय- २. मृकंडमूनुना इ. कपु० । १. पञ्चात्रात् इ. कपु० ।