पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोश: वस्तुतस्तु पञ्चविंशतिकोटिमिते विस्तारे भूवृत्तेऽष्टसप्ततिकोटिमितपरिमाणं भवति । केचित्तु दशकोटिमिता काञ्चनभूमिः स्वादूदकान्तादुभयत्रेति वदन्ति । तेन पञ्चकोटिमितैव काञ्चनभूमिरेकस्मिन् प्रदेशे भवति । मानसोत्तरपर्वतान्तात् कतिचिद्यो- जनानि सप्तद्वीप-सप्तसागरपरिमाणे प्रागुते संयोज्य पञ्चकोटियोजनमिव संयोज्य जम्बूद्वीपमध्याद्भूमिपरिध्यन्तं चतुर्दिक्षु कोटयष्टकमितान्येव योजनानि व्यावर्णयन्ति । तेन षोडशकोटियोजनमितव्यासः पञ्चाशत्कोटिमितभूपरिधिश्च भवति । भारते भीष्मपर्वणि तु जम्बूद्वीपप्रमाणं लक्षमितम् । ततः क्षारसमुद्रो लक्षद्वया- त्मक इत्यादि यदुक्तं तद् वामनपुराणाभिप्रायेण । तथा च वामनपुराणे- तल्लक्षयोजनानाञ्च प्रमाणेन निगद्यते । ततो जलनिधी रौद्रो बाह्यतो विगुणः स्थितः ॥१॥ चत्वारिंशदिमाः कोटयो लक्षाश्च नर्वातः स्मृताः । जम्बूद्रीपं समारभ्य यावत् क्षीराब्धिरुत्तमः ||२| कोटयश्चतस्रो लक्षाणां द्वौ पञ्चाशच्च राक्षस । पुष्करद्वीपमानोऽयं तावदन्तं तथा दिवि || ३ | लक्षमण्डकटाहेण समन्तादभिपूरितम् । एवं द्वीपास्त्विमे सप्त पृथग्धर्माः पृथक् क्रियाः ॥ ४ ॥ सूर्यसिद्धान्ते पञ्चसहस्रयोजनोऽयं भूपरिधिरभिहितः । अनयोः पुराण-सिद्धान्ता- मिहितभूगोलपरिमाणयोः स्मृतित्वाविशेषेणागमप्रामाण्यतुल्यत्वेऽपि केवलव्यतिरेक्यनु- मानापरपर्यायेण त्रैराशिकेन स्वमतं दृढयन्नाह - पुरान्तरं चेदिदमुत्तरं स्यात्तदक्षविश्लेषलवेस्तदा किम् । चक्रांशकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधेः प्रमाणम् ॥ भूः पञ्चसहस्रयोजना मध्यरेखास्थचतुर्दशयोजनान्तरे लवोन्मितध्रु वोन्नत्यन्तर- जनकत्वे सति चक्रांशमितपरान्तरजनकत्वाद्यन्नैवं यथाक्षेत्रमिति | देशान्तरघटिका देशान्तरयोजनानि च ज्ञात्वायद्येताभिर्घटीभिरेतानि योजनानि तदा षष्टिघटीभिः किमिति स्पष्टभूपरिधियोजनानि भवन्ति । तानि त्रिज्यागुणानि लम्बज्याभक्तानि भूपरिधियोज- नानि भवन्ति । भूः पञ्चसहस्रयोजना मध्यरेखातः पूर्वतो दशयोजनान्तरे सपञ्चांशसप्तपलो- न्मितं प्रति व्युदयान्तरजनकत्वे सति षष्टिघटीमितपरान्तरजनकत्वाद् यन्नैवं तन्नैवं यथाक्षेत्रमिति । उज्जयिन्यां सार्द्धद्वाविंशतिमितपलांशाः । ते तु चक्रांशानां षोडशांशमिता इति लङ्कातो भूपरिधिषोडशांशे उज्जयिनी स्यात् । लङ्काऽवन्त्यन्त र षोडशगुणं भूपरिधि: स्यात्पुराणे किमित्यधिक उक्त इत्याह- निरक्षदेशात् क्षितिषोडशांशे भवेदवन्ती गणितेन यस्मात् । तदन्तरं षोडशसंगुणं स्याद्भूमानमस्माद्वहु कि तदुक्तम् ॥ अस्मदुक्तभूपरिधिसाधितश्शृङ्गोन्नत्यादिगणितं इति • नान्यसाधितमिति स्वोदितभूपरिधिप्रामाण्यमन्वयव्यतिरेकसिद्धमस्तीत्याहुर्गंणितप्रवर्त्तका इत्याह-