पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये इत्यनेनाहुस्तन्मतनिरासार्थं वा स्वशक्त्येत्युक्तम् । परशक्तिकल्पनातः स्वशक्ति- कल्पनैव न्याय्येत्याशयः । अस्य पृष्ठे । “निष्ठं विश्वं च शश्वत्सदनुजमनुजादित्यदैत्यं समन्ता" इत्यत्र । “कदम्बकुसुमग्रन्थिः केसरप्रकरै रिव" इति दृष्टान्तं वक्ष्यते । भूमेरन्तरिक्षस्थि- खस्थगुरुवस्त्वाकर्षणशक्तिश्चेति शक्तिद्वयकल्पना स्यात्तत्र गुरुत्वादेव पतनमिति लोकप्रसिद्धेर्भूमेस्तादृशाकर्षणशक्तिकल्पनामन्तरेणापि तिर्यगधः स्थितानां प्रयातो न संभवतीत्याशयेन वक्ष्यते । तत्वशक्ति: यो यत्र तिष्ठत्यवनीं तलस्थामात्मानमस्या उपरि स्थितञ्च । स मन्यतेऽतः कुचतुर्थसंस्था मिथश्च ते तिर्येगिवामनन्ति ॥ अधः शिरस्का: 3 कुदलान्तरस्थाश्छायामनुष्या इव नीरतीरे । अनाकुलास्तिर्यगधः स्थिताश्च तिष्ठन्ति ते तत्र वयं यथात्र || इति । “कीहक्द्वीपकुलाद्रोन्द्र समुद्रर्मुद्रितोच्यतामिति" प्रश्नस्योत्तरं “भूमेरर्द्धं क्षारसिन्धोरुंदक्स्थमि” त्यादिना वक्ष्यते । समुद्रद्वीपादिपरिमाणानि रोमकादिप्रणी- तान्यवगन्तव्यानि । बिष्णु-लिङ्गपुराणे तु वलयाकारो जम्बूद्वीपो लक्षयोजनविस्तृत उक्त: । लक्षयोजनविस्तृतेन क्षारसमुद्रेण वलयाकारेण समन्ताद्वेष्टितः । ततोऽन्यो द्वीपो लक्षद्वययोजनविस्तृतस्ततोऽन्यः समुद्रोऽपि लक्षद्वयविस्तृत उक्तः । एवं द्वितीयद्वी- पात्तृतीयद्वीपो द्विगुणश्चतुर्लक्षमितः । चतुर्थद्वीपोऽष्टलक्षयोजनः । पञ्चमः षोडशल- क्षमितः । षष्ठो द्वात्रिंशल्लक्षयोजनः सप्तमश्चतुःषष्टिलक्षयोजनविस्तृत उक्तः । एव- मन्येऽपि समुद्राः पूर्वससुद्राद् द्विगुणा उक्ताः । एवंविधसप्तसमुद्र विस्तारपरिमाणसङ्कलने जातं सप्तविंशतिलक्षयुतं लक्षशतम् । समद्वीपपरिमाणसङ्कलनेऽपि जातमेता- वदेव । अनयोः सङ्कलने जातं कोटिद्वयं चतुःपञ्चाशल्लक्षयुतम् । जम्बूद्वीपमध्यात्स्वा- दूदकान्तः समन्तात् कियानिति ज्ञानार्थं जम्बूद्वीप विस्तारार्द्धेन पञ्चाशत् सहस्रमितेन हीनं चतुःपञ्चाशल्लक्षयुतं कोटिद्वयं कार्यम् । अत एव पुराणे पठ्यते । कोटिद्वयं त्रिपञ्चाशल्लक्षाणि च ततः परं । पञ्चाशच्च सहस्राणि सप्तट्टोपा ससागरा ॥ ततस्तु काञ्चनी भूमिदंशकोटयो वरानने । देवानां क्रीडनार्थाय सर्वसत्त्वविवजिता ॥ इत्यप्युक्तम् । अत्र सार्द्धलक्षत्रयोना दशकोटिमितापि काञ्चनभूमिः स्थूलदृष्ट्या दशकोटिप्रमितैवोक्तेत्याहुः । जम्बूद्वीपमध्याभूमिपरिध्यन्तं चतुर्दिक्षु सार्द्धद्वादशकोटि- मितयोजनान्येव भवन्तीति पञ्चाशत्कोटिविस्तीर्णं भूमण्डलं वदन्ति । १. प्र सरै रिति मु० पु० । २. ये, इति मु० पु० । ३. शिरस्कमिति का पु० ।