पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशः ३६१. वृत्तं सप्तव्यासमितमिति प्रसिद्धम् । तत्रास्मिन् द्वाविंशतिमितपरिधौ द्वाविंशतिचिह्नानि कृत्वा वृत्तमध्यात् प्रतिचिह्नं व्यासार्द्धदैर्ध्याणि सूत्राणि वप्रसार्याणि । वृत्तार्द्ध परिधि- द्वाविंशत्यंशविस्ताराणि वृत्तव्यासार्द्धमितदैर्ध्याणि । यान्येकादशशकलानि तेषु वृत्तार्द्धान्तरस्थैकादशशकलानि तथा योज्यानि यथा द्वयोर्द्वयोर्योगे परिधिद्वाविंशत्यं- शमितभुजं वृत्तव्यासार्द्धमितकोटिकश्च आयतं स्यात् । एवमेकादशायतानि क्षेत्राणि भवन्ति । आयते भुजकोटिघातः फलमित्ये कस्मिन्नायतक्षेत्रे परिधिव्यासघातचतुश्चत्वारिं- शदंशः फलम् । इदमेकादशगुणं वृत्तफलं स्यादिति "" वृत्तक्षेत्रे परिधिगुणितंत्र्यासपादः फलं" शोभनमुक्तम् ॥ ५२ । लल्लोक्तस्य नगशिलीमुखबाणभुजङ्ग मेत्या देर्भूपृष्ठफलस्य दूषणमाह - दुष्टं कन्दुकपृष्ठजालवदिलागोले फलं जल्पितं लल्लेनास्य शतांशकोऽपि न भवेद्यस्मात् फलं वास्तवम् । तत् प्रत्यक्षविरुद्ध मुद्धतमिदं नैवास्तु वा वस्तु वा हे प्रौढा गणका विचारयत तन्मध्यस्थबुद्धया भृशम् ॥ ५३॥ वा० भा० -- यल्लल्लोक्तं भूपृष्ठफलं तदृदुष्टम् । यतस्तदुक्तफलस्य शतांशकोऽपि वास्तवं पारमार्थिक फलं न भवति । अत्यन्तं दुष्टमित्यर्थः । कुतो यतस्तत् प्रत्यक्षविरुद्धम् । प्रत्यक्ष- बाधो हि महादूषणम् । अथात्मन औद्धत्याशङ्कां परिहरन्नाह । इदं मदुक्तं नैवोद्धतं किंतु वस्तु परमार्थ: । अथवा कि शपथपरिहारेण । उद्धतमस्तु वा वस्त्वस्तु वा । हे प्रौढ़ा गणका मध्यस्थ- बुद्ध्या विचारयत भृशमत्यर्थम् ।। ५३ । अथ सयुक्ति: । यत् परिध्यर्धविष्कम्भं वृत्तं कृत्तं किलांशुकम् । तेनार्धरछाद्यते गोलः किंचिद्वस्त्रेऽवशिष्यते ॥५४॥ गोलक्षेत्रफलात् तस्माद्वस्त्र क्षेत्रफलं यतः । सार्धद्विगुणितासन्नं तावदेवापरे दले ॥ ५५॥ एवं पञ्चगुणात् क्षेत्रफलात् पृष्ठफलं खलु । नाधिकं जायते तेन परिधिघ्नं कुतः कृतम् ॥५६॥ १. ली० क्षे० ४१ श्लो० । २. लल्ल:- नगशिलीमुखबाणभुजङ्गमज्वलन वह्निरसेषुगजाश्विनः २८५६३३८५५७ । कुवलयस्य बहिः परियोजनान्यथ जगुः खलु कन्दुकजालवत् । सि० - ४६ शि० धी० गो० भूगो० ११ इलो० ।