पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ सिद्धान्तशिरोमणी गोलाध्याये यदि निशाजनकः कनकाचलः किमु तदन्त रगः स न दृश्यते । उदगयं ननु मेरुरथांशुमान् कथमुदेति च दक्षिणभागतः । इति । अवनौ गगनं समन्तात् लग्नमिव दृश्यते तत् क्षितिजम् । क्षितिजादधो गतो न दृश्यत इति रात्रिर्भवति । 'रात्रावस्मन्नायनरश्मयः सूर्यं प्रति न गच्छन्ति भूम्यवरुद्धत्वात् । भूम्यवरोधः प्रत्यक्षप्रमाणगम्यः । न तथा मेरोवरोधः प्रत्यक्षेण गृह्यते । द्वयोरागमप्रमाणतुल्यत्वेऽपि प्रत्यक्षमस्माकमधिकमित्याशयेनाह- किमु तदन्तरगः स न दृश्यत इति । यत्र षट्षष्टिभागा: पलांशास्तत्र मकरादावुदितमर्कखण्डं लोहितवर्णं स्व- याम्योत्तरक्षितिजस्थमेव क्षणमात्रं पश्यन्ति । ततश्चास्तमित एव रविर्भवति । तस्मिन् षष्टिघटीमिता रात्रिर्भवति । मेरुस्तु सर्वत उत्तर इत्यविवादस्तेन सम्यगुक्तं कथमुदेति च दक्षिण भागत इति । एवमाग्नेय्यामपि रव्युदयदर्शनान्मेरुनिशाजनक इत्ययुक्तम् । तस्माद् भूमेः पिण्डो वृत्त इति शोभनमुक्तम् । यवनास्तु जलोपरि भूमिस्तुम्बिकावत्तरतीत्याहुः । निरक्षदेशात् सर्वत्र मेरु- पर्यन्तभूगोलखण्डं स्वल्पं जलोपरि तिष्ठति । महद्भूखण्डं जले मज्जितमस्तीति जलं भूमेराधारं वाञ्छन्ति । भूमाविदं जलमिति सार्वजनीनप्रतीतेर्जलाधारत्वं सर्वत्र दृष्ट- मिति जलं भूमेराधार इत्ययुक्तम् । अन्तरिक्षनिःक्षिप्तजलस्य भूमौ प्रपातदर्शनादायुष्मता यज्जलं भूम्याधारकमुच्यते तस्याप्यधारोऽवश्यं मृग्यः । अनवस्थाभयेनान्त्ये शक्तिः कल्प्यते चेतर्ह भूमावेव कल्प्यतामित्याचार्यो- मूर्त्तो धर्त्ता चेद्धरित्र्यास्तदन्यस्तस्याप्यन्योप्येवमत्रानवस्था । अन्त्ये कल्प्या चेत् स्वशक्ति: किमाद्य इत्यत्र वक्ष्यते । कथं वा जले विलयो न भवेन्मृदः । नाडिकामण्डलादुत्तरत ईप्सितक्रान्तितुल्येऽन्तरे परमक्रान्तिपर्यन्तं यानि धुरात्रवृत्तानां व्यासार्द्धप्रमाणानि भवन्ति तान्येव नाडीमण्डलाद् दक्षिणत ईप्सितक्रान्तितुल्येऽन्तरे परमदक्षिणक्रान्ति पर्यन्तमहोरात्रवृत्तानां भवन्तीति । “स्वदेशमेर्वन्तरयोजनैर्यल्लम्बांशजैर्मेरुगिरेः समन्तात् । वृत्तं कृतं भूपरिधिः स्फुट इत्यनेन यो भूपरिधिः स निरक्षदेश एव सिद्धयति । निरदेशादुभयत्रेदं परिधेरपचयस्य युक्तत्त्वाज्जलमध्ये महद्भूखण्डं मज्जितमिति यदुक्तं तदप्ययुक्तम् । एतेनान्तप्रमाणको भूगोल इति मतं निरस्तम् । केचित्तु मेरोर्यथा यथा दक्षिणदिग्गमनं तथा तथा परिधिवृद्धिमिच्छन्तो निरक्षे परमत्वं परिघेनेंच्छन्तः स्पष्टभूपरिधिसाधनयुक्त्यैव पञ्चाशत्कोटिविस्तीर्ण भूमण्डलं १. रावावस्मत्रायन इति कपु० ।