पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोश: ३५३ नात्मिकगतिसाम्योपलम्भ: । कक्षैक्यस्वीकारात्तुल्यकालेन सर्वेषां भगणभोगापत्तेः । कलात्मकगतिभेदेऽपि कथं बाधितों न स्यात् । कक्षैक्ये कलात्मकगतिभेदोपलम्भोऽपि न स्यात् । ईदृशानेकप्रत्यक्षाबाधाय ग्रहाणां कक्षाभेदः स्वीकृतः । चन्द्रापेक्षया बुधस्पष्टगतिर्न्यूना तस्यापेक्षया शुक्रस्येति “शशाङ्क-ज्ञ-कवि-रवि-कुजेज्याकिनक्षत्रकक्षावृत्तेवृत्त" इत्युक्तम् । वृत्त इति कन्दुका- कारता भूमेरुक्ता । निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षिणोत्तरौ । तदाश्रितं खे जलयन्त्रवत्तथा भ्रमद्भचक्रं निजमस्तकोपरि ॥ उदग्दिशं याति यथा यथा नरस्तथा तथा खान्नतमृक्षमण्डलम् । उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशकाः ॥ इत्यनेन भूमेः कन्दुकाकारत्वे युक्ति वक्ष्यते । चतुरस्राकारायां मुकुराकारायां वा भूमौ ध्रुवोन्नमनमुदग यातुनवकल्प्यते । कन्दुकाकारत्वे प्रत्यक्षं यद् ध्रुवोन्नमनं तदवकल्प्यते । भूःकन्दुकाकारा पूर्वापरं यातुरुदग्वृत्तिध्रुवीच्यसाम्यजनकत्वें सत्यु- दग्यातुरौच्योपजनकत्वात् । यथोदग्धृतदीपस्तिर्यकपरिभ्रममाण : कीटो घटः कपित्थं वेति चिन्तामणिना कन्दुकाकारत्वेऽनुमानं सम्यगुपन्यस्तम् । नापीयं भूः कन्दुकाकारा समबुद्धिजनकत्वात् मुकुरवदित्यनुमानेनापि मुकुरा- कारत्वं सम्पूर्णभूमेर्न संभवतीति । समो यतः स्यात् परिधेः शतांशः पृथ्वी च पृथ्वी नितरां तनीयान् । नरश्च तत्पृष्ठगतश्च तस्मात् समैव तस्य प्रतिभात्यतः सा । इत्यनेन वक्ष्यते । किञ्च मुकुराकारत्वे देवानामिव मनुष्याणां षण्मासपर्यन्तं कथं दिनं न स्यात् । मनुष्याणामिव देवानां षष्टिघटीमितं वा कथं न स्यात् । वक्ष्यति च यदि समा मुकुरोदरसन्निभा भगवती धरणी तरणिः क्षितेः । उपरि दूरगतोऽपि परिभ्रमन् किमु नरैरमरैरिव नेक्षते ॥ इति । पुराणे लक्षयोजनपरिमाणं जम्बूद्वीपम् | जम्बूद्वीपमध्यगो मेरुः । मेरु- मूले विस्तार : षोडशसहस्रयोजनः । उपर द्वात्रिंशत्सहस्रयोजनविस्तारः । भूमेरन्तः षोडशसहस्रयोजनः । भूमेरुपरि मेरोरुच्छ्रायश्चतुरशीति सहस्रयोजनतुल्यो भूमेरधस्तदुपरि चतुल्य एवोक्तः । भूमेरुपरि लक्षयोजनान्तरे रविभ्रंमति । मेरो- दूरतः समन्तात् प्रदक्षिणं रविभ्रमति । लङ्कादयाच्चरकालेन रेखादयः, न तदुयात् स्वदेशादयः, प्रत्यक्षदेशान्तरकालेन दृश्यत इति युक्तं भूमेः कन्दुका- कारत्वम् । मुकुराकारत्वे सर्वत्राप्युदयास्तौ युगपदेव भवेतामिति "दूरगतोऽपि परिभ्रमन् किमु नरैरमरैरिव नेक्ष्यत" इत्युक्तम् । ये तु मेरुवशेन रात्रिर्भवतीत्याहुस्तान् सयुक्तिकं वक्ष्यते- सि० ४५