३५० सिद्धान्तशिरोमणी गोलाध्याये वा० भा० - - तस्येलावृतस्य मध्ये कनकरत्नमयो मेरुगिरिः कणिकाकारस्तदेव देवानामाल- यम् । तत्र मेरावुपरि शिखरत्रयम् | तेषु शिखरेषु मुरारेब्रह्मणः पुरारेश्च पुराणि सन्ति । शिख- राणमधः समन्तादिन्द्रादिलोकपालानां पुराणि सन्ति । अथ मेरो विष्कम्भरीला इत्याधार- पर्वताः । यस्यां दिशि यमकोटिस्तद्दिक्प्रभृति मन्दर सुगन्धविपुलसुपार्वा दिक्षु सन्ति । मन्दरे कदम्ब केतुवृक्ष ञ्चैत्ररथं वनमरुणोदं सरः | सुगन्धशैलमस्तके केतुवृक्षो जम्बू: । ये- नेवं जम्बूद्वीपमुच्यत | नन्दनं वनं मानसं सरः । विपुलशैलमस्तके केतुवृक्षो वटो वृतिवनं महाह्रद सरः । सुपाइवँमस्तके केतुवृक्षः पिप्पलो वैभ्राजं वनं श्वेतोदं सरः । शेषं सुगमम् ॥ ३६ । तत्रान्यं विशेष माह- चतुर्धास्मात् । वियता ॥३७॥ विष्णुपदी विष्णुपदात् पतिता मेरौ विष्कम्भाचलमस्तकशस्तसर: संगतागता सीताख्या भद्राश्वं सालकनन्दा च भारतं वर्षम् । चक्षुश्च केतुमाल भद्राख्या चोत्तरान् कुरून् याता ॥३८॥ याकर्णिताभिलषिता दृष्टा स्पृष्टावगाहिता पीता । उक्ता स्मृता स्तुता वा पुनाति बहुधापि पापिनः पुरुषान् ||३९ | यां चलिते दलिताखिलवन्धो गच्छति वल्गति तत्पितृसङ्घः । प्राप्ततटे विजितान्तकदूतो याति नरे निरयात् सुरलोकम् ||४० । वा० भा० - गङ्गां यामीत्युपक्रमं कुवंत्यपि नरे तस्य पितॄणां नरकस्थानां यमपाशबन्धा- स्त्रुटघन्ति । अथ गच्छति मार्गलग्ने तत्पितरो वल्गन्ति । अस्मत्कुलजो गङ्गां गच्छति । अतोऽ- स्माकं दुष्कृतकर्मविच्छेदादूध्वंगतिर्भविष्यतीति हर्षेणोत्पतन्ति । अथ प्राप्ततटे गङ्गासन्नस्थिते स्वकुलजे गङ्गाब लेन मुष्टिघातादिभिरन्तकदृतान् जित्वा देवलोकं यान्ति । एवंविधाया गङ्गाया मन्दाकिन्या: किमन्यद्वयंत इत्यर्थ: । शेषं स्पष्टम् ।। ३७-४० । । इदानीं भारतस्यापि मध्ये नव खण्डानि सप्त कुलाचलांश्चाह- ऐन्द्रं कशेरुशकलं किल ताम्रपर्णमन्यद्ग भस्तिमदतश्च कुमारिकाख्यम् । नागं च सौम्यमिह वारुणमन्त्यखण्डं गान्धर्वसंज्ञमिति भारतवर्ष मध्ये ॥४१॥ १. अत्र श्रीपतिः - 'ऐन्द्रं कशेरुक्रमत खलु ताम्रपर्णं खण्डं गर्भास्तिदमनं च कुमारिकाख्यम् । सौम्यं च नागमथ वारुणनामधेयं गान्धवंसंज्ञमिति भारतमेव वर्षे ।। मलयाचलश्च । कुलाचला सप्त महेन्द्रशुक्तिसह्यर्क्षविन्ध्या पारियात्रोऽत्र च कन्यकाख्ये वर्णव्यवस्था नहि सेतुरत्र |॥' स सि० शे० १५ अ० ४६-४७ श्लो० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३९२
दिखावट