सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशः ३४९ ततो हरिवर्षमिति । एवं सिद्धपुरादुत्तरतः शृङ्गवान् नाम गिरिः । ततः श्वेतगिरिः । ततो नीलगिरिरिति । तेऽपि सिन्धुपर्यम्सदैर्ध्या: । तेषामन्तरे च वर्षाणि । तत्रादौ कुरुवर्षम् । तदुत्तरे हिरण्मयम् । ततो रम्यकमिति । अथ यमकोटेरुत्तरतो माल्यवान् नाम गिरिः । स तु निषधनीलपर्यंन्तर्दध्यंः । तस्य जलधेश्च मध्ये भद्राश्वं वर्षम् । एवं रोमकादुत्तरतो ग न्धमादनः । तस्य जलधेश्च मध्ये केतुमालम् । एवं निषधनीलमाल्यवद्गन्धमादनेशबृतमि- लावतं नाम नवमखण्डम् । सा स्वर्गभूमिः । अतस्तत्र देवक्रीडागृहाणि | शेषं स्पष्टम् ।। २६-३०। इवानों मेरुसंस्थानमाह - इह हि मेरुगिरिः किल मध्यगः कनकरत्नमयस्त्रिशालयः । द्रहिणजन्मकुपद्मजकर्णिकेति च पुराणविदोऽमुमवर्णयन् ||३१| विष्कम्भ शैलाः खलु मन्दरोऽस्य सुगन्धशैलो विपुलः सुपार्श्वः । तेषु क्रमात् सन्ति च केतुवृक्षाः कदम्बजम्बूवटपिप्पलाख्याः ॥३२॥ जम्बूफलामलगलद्रसतः प्रवृत्ता जम्बूनदी रसयुता मृदभूत् सुवर्णम् । जाम्बूनदं हि तदतः सुरसिद्धसङ्घाः शश्वत् पिबन्त्यमृतपानपराङ्मुखास्तम् ।।३३। वनं तथा चैत्ररथं विचित्र तेष्वप्सरो नन्दननन्दनं च | त्यं यद्धतिकृत् सुराणां भ्राजिष्णु वैभ्राजमिति प्रसिद्धम् ||३४| सरांस्य थैतेष्वरुणं च मानसं महाहृदं श्वेतजलं यथाक्रमम् । सरःसु रामारमणश्रमालसाः सुरा रमन्ते जलकेलिलालसाः’ ||३५| सद्रत्नकाञ्चनमयं शिखस्त्रयं च मेरौ मुरारिकपुरारिपुराणि तेषु । तेषामधः शतमखज्वलनान्तकानां रक्षोऽम्बु पानिलशशीशपुराणि चाष्टौ ||३६| १. अत्र श्रीपतिः - 'हरिविरिश्चमहेश्वरमन्दिरैः कनकरत्नमयैस्त्रिदशालयः । त्रिशिखरो गिरिरेष विराजते शतमखा दिदिगीशनुरावृतः ॥ सि० शे० १५ अ० ४५ इलो० । २. अत्र श्रीपतिः - 'तेषूद्यानं चैत्रपूर्वं रथं च गीर्वाणस्त्री नन्दनं नन्दनं च | अन्यद्धृत्याख्यं च वैभ्राजसंज्ञं विभ्राजन्ते तानि कल्पद्रुमैश्च' । ३. अत्र श्रीपतिः -- सि० शे० १५ अ० ४३ श्लो० । 'सरोरुणाभाह्वयमेषु मानसं महाह्रदं चापि सितोदसंज्ञितम् । व्रजन्ति येषु प्रतिवासरं स्त्रियः सहाप्सरोभिजंलकेलिलालसा:' । सि० शे० १५ अ० ४२ श्लो० ।