पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ सिद्धान्तशिरोमणी गोलाध्याये दघ्नो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः । स्वादकान्तर्वडवानलोऽसौ पाताललोकाः पृथिवीपुटानि ||२३| चञ्चत्फणामणिगणांशुकृतप्रकाशा एतेषु सासुरगणाः फणिनो वसन्ति । दीव्यन्ति दिव्यरमणीरमणीयदे हैः सिद्धाश्च तत्र च लसत्कनकावभासः ||२४| शाकं ततः शाल्मलमत्र कौशं क्रोश्चं च गोमेदकपुष्करे च । द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वीपमुदाहरन्ति ||२५| वा० भा० स्पष्टम् ॥ २१-२५ । इबानीं जम्बूद्वीपमध्ये गिरिनिवेशवशेन नव खण्डान्याह लङ्कादेशाद्धिमगिरिरुदग्हेमकूटोज्थ तस्माच्चान्यो निषध इति ते सिन्धुपर्यन्तदैर्ध्याः तस्मात् पुराच्छवलनीला एवं सिद्धादुदगपि वर्षाणयेषां जगुरिह बुधा अन्तरे द्रोणिदेशान् ||२६| भारतवर्षमिदं ह्युदगस्मात् किन्नरवर्षमतो हरिवर्षम् । सिद्धपुराच्च तथा कुरु तस्माद्विद्धि हिरण्मयरम्यकवर्षे ||२७| माल्यवांश्च यमकोटिपत्तनाद्रोमकाच्च किल गन्धमादनः । 'नीलशैलनिषधावधी च तावन्तरालमनयोरिलावृतम् ||२८| माल्यवज्जलधिमध्यवर्ति यत् तत् तु भद्रतुरगं जुगुर्बुधाः । गन्धशैलजलराशिमध्यगं निषधनीलसुगन्धसुमान्यकैरलमिलावृतमावृतमाबभौ केतुमालकमिलाकलाविदः ||२९| । अमरकेलिकुलायसमाकुलं रुचिरकाञ्चनचित्रमहीतलम् ||३०| वा० भा० - अत्र भूगोलस्यार्धमुत्तरं जम्बूद्वीपम् । तस्य क्षाराधेश्च सन्धिनिरक्षदेशः । तत्र रोमकं सिद्धपुरं यमकोटिरिति पुरचतुष्टयं भूपरिधिचतुर्थशान्तरं किल कथितम् । तेभ्य: पुरेभ्यो यस्यां दिशि मेरुः सोत्तरा । अतो लङ्काया उत्तरतो हिमवान् नाम गिरिः पूर्वापर- सिन्धुपर्यन्त देर्थ्योऽस्ति । तस्योत्तरे हेमकूटः । सोऽपि समुद्रपर्यंन्तवैर्ध्यः । तथा तदुत्तरे निषधः । तेषामन्तरे द्रोणिवेशा वर्षसंज्ञाः । तत्रादौ भारतवर्षम् । तदुत्तरम् किन्नरवर्षम् । १. अत्र श्रीपतिः - उत्तरायतगिरिश्च माल्यवान् कीर्तितः स यमकोटिपत्तने । रोमके च खलु गन्धमादनो लशैलनिषधावधी च तो ॥ सि० शे० १५ अ० ३८ इलो० ।