पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४७ शृङ्गोअतिग्रहयुतिग्रहणोदयास्तच्छायादिकं परिधिना घटतेऽमुना हि । नान्येन तेन जगुरुक्तमहीप्रमाणप्रामाण्यमन्वययुजा व्यतिरेककेण ||१६| वा० भा०-- स्पष्टम् ॥ १५-१६ । इदानीं भूगोले पुरनिवेशमाह - लङ्का कुमध्ये यमकोटिरस्याः प्राक् पश्चिमे रोमकपत्तनं च । अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये वाडवानलश्च' ॥१७॥ कुवृत्तपादान्तरितानि तानि स्थानानि षड्गोलविदो वदन्ति । वसन्ति मेरौ सुरसिद्धसङ्घा और्वे च सर्वे नरकाः सदैत्याः ॥१८॥ यो तत्र तिष्ठत्यवनीं तलस्थामात्मानमस्या उपरि स्थितं च । स मन्यतेऽतः कुचतुर्थसंस्था मिथश्र ये तिर्थगिवामनन्ति ॥१९॥ अधः शिरस्काः कुदलान्तरस्थारछायामनुष्या इव नीरतीरे । अनाकुलास्तिर्यगधः स्थिताश्च तिष्ठन्ति ते तत्र वयं यथात्र ||२०| वा० भा०- सुगमम् ।। १७-२० । भुवनकोशः इदानीं द्वोपानां समुद्राणां च स्थानमाह- भूमेरर्धं क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहुराचार्यवर्याः । अर्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः ||२१| अलवणजलधिरादौ दुग्धसिन्धुश्च तस्मादमृतममृतरश्मिः श्रीश्च यस्माद्धभूव । महितचरणपद्मःपद्मजन्मादिदेवैर्वसति सकलवासो वासुदेवश्च यत्र || २२ .१. अत्र श्रीपतिः- - क्षितिपरिधिचतुर्थे प्राचि लङ्कानगर्या निवसति यमकोटि: पश्चिमे रोमकञ्च | उदगमरगिरीन्द्रो दक्षिणे वाडवाग्निः क्षितिपरिधिदलेऽध: पत्तनं सिद्धपूर्वम्' । सि० शे० १५ अ० ३० श्लो० । २. अत्र श्रीपतिः - - 'जम्बूद्वीपो लवणजलधेर्मंध्यतो मेरुमध्यः शाकस्तस्माद्बहिरथ कुश: क्रौञ्चनामा ततश्च । शाल्मल्याख्यो भवति परितश्च थ गोमेदसंज्ञस्तस्मादबाह्य मुनिमिरुदितः सप्तमः पुष्कराख्यः सि० शे० १५ अ० ३३ श्लो० । ३. अत्र श्रीपतिः - लवणजलधिराद्यो दुग्धसिन्धुद्वितीयस्तदनु दधिसमुद्रसपिरब्धिश्चतुर्थः अथ रसनिधिरिक्षोः पञ्चमोऽन्यः सुराया जलधिरथ तदन्ते सप्तमः स्वादुतोयः' सि० शे० १५ अ० ३२ श्लो० ।