पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ गोलाध्याये । यदि निशाजनकः कनकाचलः किमु तदन्तरगः स न दृश्यते । उदगयं ननु मेरुरथांशुमान् कथमुदेति च दक्षिणभागके ||१२| वा० भा० -पुराणे भूः समादर्शोदरसन्निभा कथ्यते । तन्मध्ये मेरुः । परितो जम्बूद्वीपं लक्षयोजनव्यासम् । तद्बहिर्लक्षप्रमाणः क्षाराम्भोधिः ततोऽन्यद्द्वीपं लक्षद्वयम् । ततः समुद्र- स्ततोऽन्यद्द्वोपम् । द्वीपाद्वीपं द्विगुणम् । समुद्रात् समुद्रो द्विगुणः । एवं यत् सप्तमं पुष्करद्वीपं तन्मध्ये मानसोत्तरपवंतो वलयाकारोऽस्ति । तन्मस्तकोपर रविरथचक्रं लक्षयोजनान्तरे विषुवद्दिने भ्रमति | उत्तरगोले तदुत्तरतो दक्षिणगोले दक्षिणत इति । अथ युक्तिरुच्यते – यदि समा भूस्तदा तदुपरि दूरगतो रविभ्रंमन् किमस्मदा विभिनं दृश्यते । सततं देवेरिव । यदि मेरुणातहतो रविस्तहि मेरुः कथं न दृश्यते । यदि मेरुतटान्नि:- सृतस्याकंस्योदयस्तह प्राच्या उत्तरत एवार्कस्योदयेन भवितव्यम् । यतो मेरुत्तरत । अथ कथं दक्षिणभाग उद्गच्छन् दृश्यते । अतो भूमेः समतायामिदं नोपपद्यत इत्यर्थः ॥ ११-१२ । अथ प्रत्यक्षविरोधशङ्कां परिहरन्नाह -- समो यतः स्यात् परिधेः शतांशः पृथ्वी च पृथ्वी नितरां तनीयान् । नरथ तत्पृष्ठगतस्य कृत्स्ना समेव तस्य प्रतिभात्यतः सा ॥१३॥ वा० भा० ---स्पष्टम् ॥ १३ । ३४६ इदानीं स्वोक्तस्य भूपरिधिप्रमाणस्योपपत्तिमाह -- पुरान्तरं चेदिदमुत्तरं स्यात् तदक्षविश्लेषलवैस्तदा किम् । चक्रांशकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधेः प्रमाणम् ||१४| वा० भा० -- निरनदेश: स्वदेशाद्यथा यथा दक्षिणतो भवति तथा तथा खस्वस्तिकाद्विषु- वद्वृत्तं नतम् । तयोरन्तरेऽक्षांशाः । ते च निरक्षदेशादपसार योजनेरनुपातेनोत्पद्यन्ते । अथ कस्म- ञ्चित् पुरेऽक्षांशान् ज्ञात्वा तस्मात् पुरादुत्तरतोऽन्यस्मिन् पुरे ज्ञेया: । ततस्तेषामन्तरांश: पुरान्तर- योजनैश्चानुपात: । यद्यन्तरांश: पुरान्तरयोजनानि लभ्यन्ते तदा चक्रांश: ३६० किमिति | फलं भूपरिधियोजनानि ॥ १४ ॥ अथ तदेव दृढोकुवंशाह- निरक्षदेशात् क्षितिषोडशांशे भवेदवन्ती गणितेन यस्मात् । तदन्तरं षोडशसंगुणं स्याद्भूमानमस्माद्बहु किं तदुक्तम्' ॥१५॥ अत्र लल्ल:-- १. अत्र लल्ल:-- समता यदि विद्यते भुवस्तरवस्तालनिभा बहुच्छ्रयाः । कथमेव न दृष्टिगोचरं नुरहो यान्ति सुदूरसंस्थिताः ॥ शि० धी० गो० मिथ्या० ३६ इलो० । अमिता यदि भूरियोजना स्यात् क्षितिरह्ना परिवत्यंते कथं भैः । परिधेः खलु षोडशे स्थितांशे न च लङ्काविषयाद्भवस्यवन्ती ॥ शि० धी० गो० मिथ्या० ३० श्लो० ।