पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोश: ३४५ वा० भा० -- भूमेः समन्ताद्वर्तमानस्य भपञ्जरस्य भ्रमणान्यथानुपपत्त्या निराधारा भूरिति तेषां प्रतीतिरभूत् । तथाकाशस्थं गुरु वस्तु किमपि न दृष्टम् । अतो भूरधो यातोति बोद्धा वदन्ति । यथा नौस्थो नावं गच्छन्तीमपि न वेत्ति तथा भूस्थो जनो न वेत्तीति । तथा द्वौ सूर्यो । द्वो चन्द्रमसौ। चतुष्पञ्चाशन्नक्षत्राणि । चतुर्भुजस्तम्भनिभो मेरुः । एकान्तरकोणस्थौ सूर्यो मेरुकोणवशेनैकान्तरौ तावुदयं गच्छत इति जैनाश्चाब्रुवन् ॥ ७-८ । इदानीं तेषां युक्तिभङ्गमाह - भूः खेऽधः खलु यातीति बुद्धिबौद्ध मुधा कथम् । जाता यातं तु दृष्ट्वापि खे यत् क्षिप्तं गुरु क्षितिम् ॥ ९ ॥ वा० भा० -- यदि भूरधो याति तदा शरादिकमूवं क्षिप्तं पुनर्भुवं नेष्यति । उभयोरथो गमनात् । अथ भूमेर्मन्दा गतिः शरादे: शीघ्रा | तदपि न । यतो गुस्तरं शीघ्रं पतति । उयंति- गुर्वी | शरादिरतिलघुः । रे बौद्धेवं दृष्ट्वापि भूरधो यातीति बुद्धिः कथमियं तव वृथोत्पन्ना ॥१॥ इदानीं जैनयुक्तिभङ्गमाह -- किं गण्यं तव वैगुण्यं द्वैगुण्यं यो वृथाकृथाः । मार्केन्दूनां विलोक्याहा ध्रुवमत्स्यपरिभ्रमम् ||१०| वा० भा० – यदा भरणोस्थो रविर्भवति तदा तस्यास्तमयकाले ध्रुवमत्स्यस्तियंक्स्थो भवति । तस्य मुखतारा पश्चिमतः । पुच्छतारा पूर्वतः । तदा मुखतारासूत्रे रविरित्यर्थः । अथ निशावसाने मुखतारा परिवर्त्य पूर्वतो याति । पुच्छतारा पश्चिमतो याति । ततो मुखतारासूत्र- गतस्यैवार्कस्योदयो दृश्यते । अतो द्वौ द्वौ सूर्यावित्यनुपपन्नम् । अत उक्तं कि किमेकं तव वैगुण्यं गण्यम् । येन ध्रुवमत्स्यपरिभ्रमं दृष्ट्वापि भार्केदूनां द्वैगुण्यङ्गीकृतम् ॥ १० ॥ इदानीं भूगोलस्य समतां निराकुर्वन्नाह - यदि समा मुकुरोदरसन्निभा भगवती धरणी तरणिः क्षितेः । उपरि दूरगतोऽपि परिभ्रमन् किमु नरैरमरैरिव नेच्यते ||११| १. अत्र श्रीपतिः- 'शरादिरूध्वं निहितः कदाचिदायाति भूमि न तदीयपक्षे । विहङ्गमा न स्वकुलायमापुरसत् प्रलापो हि तदुक्तिरस्मात्' || सि० शे० गो० १५ अ० १२ श्लो० । २. अत्र श्रीपतिः- आदर्शोंदरसंनिभा भगवती विश्वंभरा कीर्तिता कैश्चित् कैश्चन कूपृष्ठ सदृशी कैश्चित् सरोजाकृतिः । सि० शे० गो० १५ अ० ८ श्लो० । मुकुरतलसमा चेत् सर्वतो मेदिनीयं कनकगिरिरयं तद्दृष्टियोग्या भवेन्नः । शे० गो० १५ अ० ९ इलो० । सि० सि० - ४४