सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ सिद्धान्तशिरोमणी गोलाध्याये मनुजा मानवाः । आदित्या देवा: । दैत्या असुराः । तैः समेतं समन्तात् तिष्ठति। शेषं स्पष्टार्थम् ।। २-३ । इदानीं पुराणेषु भूमेराधारपरंपरा या पठिता तां निराकुर्वन्नाह - मूर्तो धर्ता चेद्धरित्र्यास्ततोऽन्यस्तस्याप्यन्योऽस्यैवमत्रानवस्था । अन्त्ये कल्प्या चेत् स्वशक्तिः किमाद्ये किं नो भूमेः साष्टमूर्तेच मूर्तिः ॥४॥ १ वा० भा० स्पष्टम् ॥ ४ ॥ इदानीं कथमियं भूमेः स्वशक्तिरित्याशङ्कां परिहरन्नाह - यथोष्णतार्कानलयोश्च शीतता विधौ द्रुतिः के कठिनत्वमश्मनि । मरुच्चलो भूरचला स्वभावतो यतो विचित्रा बत वस्तुशक्तयः ||५॥ आकृष्टिशक्तिश्च मही तया यत् खस्थं गुरु स्वाभिमुखं स्वशक्तथा । आकृष्यते तत्पततीव भाति समे समन्तात् क्व पतत्वियं खे ||६| वा० भा० - ० - पूर्वश्लोकः सुगमः । आकृष्टिशक्तिश्च महोत्यनेन भूमेरधःपतनं तत्तियंगधः स्थितानां चाधःपतनशङ्का निरस्ता ॥ ६ ॥ इदानों बौद्धादियुक्तिमाह - भपञ्जरस्य भ्रमणावलोकादाधारशून्या कुरिति प्रतीतिः । खस्थं न दृष्टं च गुरु क्षमातः खेऽधः प्रयातीति वदन्ति बौद्धाः ॥७॥ द्वौ द्वौ रवीन्दू भगणौ च तद्वदेकान्तरौ ताबुदयं व्रजेताम्' । यदब्रुवन्नेवमनम्बराद्या ब्रवीम्यतस्तान् प्रति युक्तियुक्तम् ||८| १. अत्र श्रीपतिः - 'धर्ता धरित्र्या यदि हन्त मूर्त्तस्तस्यापरस्तस्य परस्ततोऽन्यः | एवं हि तेथामनवस्थितिः स्यादतोऽत्र युक्ता भुव एव शक्तिः' । २. सि० शे० १५ अ० २० श्लो० । अत्र श्रीपतिः उष्णत्व मर्कशिखिनो शिशरत्वमिन्दो काठिन्यमश्मनि नभस्वति चञ्चलत्वम् । नैसगिकी च पयसि द्रवता तथेह निर्हेतुरेवमवनेः स्थितिरन्तरिक्षे । - सि० शे० १५ अ० २१ इलो० । ३. अत्र श्रीपतिः - अंध: पतन्त्याः स्थितिरस्ति नोर्व्या नभस्यनन्तेऽत्र वदन्ति जैनाः । द्वौ द्वौ रवीन्द्र द्विगुणां भसंस्थां चतुर्भुजस्तम्भनिभं च मेरुम् || दो चन्दा दो सुज्ज़ा जैनवाक्यम् | सि० शे० गो० १५ अ० ११ श्लो० ।