भुवनकोशः यस्मादाद्यतत्त्वात् परब्रह्मणः क्षुब्धप्रकृतिपुरुषाभ्यां महदादिपरंपरासमुदायोत्पादि- तब्रह्माण्डजठरगतजगतीतलजजनिताद्विररिदं विश्वमभवत् । शश्वदनवरतम् । तस्य ब्रह्म- णोऽवसानेऽन्यो ब्रह्मान्यज्जगदित्यर्थः । अतस्तदाद्यं तत्त्वं जयति ॥ १ ॥ वा० वा० अथ भुवनकोशो व्याख्याते - यस्मात् क्षुब्धप्रकृतिपुरु- षाभ्यामिति । जयतीत्यनेन नमस्कार आक्षिप्यते सर्वोत्कृष्टस्यैव नमस्कारो युक्त इति । “भ्रमद्भचक्रचक्रान्तर्गमने गगनेचरै” रिति प्रश्नस्योत्तरं वक्तुं भूमिः कथमुत्पन्नेति यां काञ्चनप्रक्रियां स्वीकृत्यैवमुत्पन्ना भूमिरिति विष्णुपुराणोक्तप्रक्रिया स्वीकृता । भाष्ये सर्वं स्पष्टमुक्तम् । भवत् । सांख्येऽचेतनस्याप्यव्यक्तस्य जगत्कत्तृ त्वमुक्तं पुरुषसन्निधानमात्रेण - अचेतनापि प्रकृतिः प्रगाढ़मात्मोपकण्ठे सकलं तनोति । अचेतनं संचलतीव लोहं स्वयं यथा भ्रामकसन्निधाने ॥ वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य | पुरुषविमोक्षनिमित्तं प्रवर्त्तते तद्वदव्यक्तम् । मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ “पुरुषस्तु पुष्करपलाशवन्निर्लेपः” इत्युक्तञ्च सांख्ये ॥ १ ॥ इदानीं भूमे: स्वरूपमाह- भूमेः ३४३ पिण्ड: शशाङ्कज्ञकविरविकुजेज्याकिंनक्षत्रकक्षा- वृत्तवृत्तो वृतः सन् मृदनिलसलिलव्योमतेजोमयोऽयम् नान्याधारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्य पृष्ठे निष्ठं विश्वं च शश्वत् सदनुजमनुजादित्यदैत्यं समन्तात् || २ | सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः । कदम्बकुसुमग्रन्थिः सरप्रसव ||३| वा० भा० – योऽयं मृदनिलसलिलव्योमतेजोमय इति पाञ्चभौतिको भूमेः पिण्डो वृत्तो वर्तु- लाकारस्तद्द्बहिस्थैः शशाङ्कादिकक्षावृत्तैररावृतः सन्ननन्याधार: स्वशक्तचैव नियतं निश्चितं विय- त्याकाशे तिष्ठति । तत्पृष्ठनिष्ठं च जगत्। सदनुजमनुजादित्यदेव्यम् । दनुजा दानवाः । १. अत्र लल्लः - सलिले विलयो मृदो भवेदिति गोरप्सु न युज्यते स्थितिः । अथ पात्रगतेति तत् कथं न भवेद्यावदिलैव पार्थिवम् ॥ यदि वाम्भसि संस्थिता मही सलिलं तद्वदप्रतिष्ठितम् । गुरुणोऽम्भसि चेत् स्थितिर्भवेत् क्षितिगोलस्य न कि विहायसि || शि० धी० गो० मिथ्या० ३९-४० श्लो० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३८५
दिखावट