सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ सिद्धान्तशिरोमणौ गोलाध्यायें वा० भा० – जयति सर्वोत्कर्षेण वर्तते । कि लत् । परं ब्रह्म । आदितत्त्वं यत् । किंविशि- ष्टम् । यस्मात् क्षुरूप्रकृतिपुरुषाभ्यां सकाशान्महानभूत् । महतो गर्भेऽहंकारोऽभूदित्यादि । अत्रे- तदुक्तं भवति । साङ्ख्यादियोगशास्त्रेषु श्रुतिपुराणेषु चादिसर्गे यथोदितं तदत्रोच्यते । तत्र प्रकृतिर्नामाव्यक्तमव्याकृतं गुणसाम्यं कारणमित्यादयः प्रकृते: पर्यायाः | तस्याः प्रकृतेरन्त भंगवान् सर्वव्यापकः पुरुषोऽस्ति । सत्वं रजस्तम इति सर्वे गुणास्तुल्या एव सन्ति । अत एव तद्गुणसाम्यम् । तथा प्राकृतिके पूर्व प्रलये लोनस्तत्राव्यक्तो व्यापक: कालोऽप्यस्ति । यदा च भगवान् वासुदेव: परब्रह्माख्यः सिसृक्षुर्भवति तदा तस्मात् संकर्षणाख्योंऽशो नि- गंत्य प्रकृतिपुरुषयोः सन्निधिस्थयोः क्षोभं जनयति । ताभ्यां क्षुब्धाभ्यां महानभूत् । म हान् वै बुद्धिलक्षण इति । तन्महत्तत्त्वं बुद्धितत्वं चोच्यते । यन्महत्तत्त्वं स प्रद्युम्ननामा भगवतोंऽशः । तस्य महत्तत्त्वस्य गर्भेऽहंकारोऽभूत् । सोऽनिरुद्धनामा । विकुर्वाणस्य प्रसिद्धाः । सोऽ- त एते वासुदेवसंकर्षणप्रद्युम्नानिरुद्धा इति मूर्तिभेदा वैष्णवागमे विशेषतः हंकारी गुणवशेन त्रिधाभवत् । यः सात्त्विक: स वैकारिकः । यो राजसः स तैजसः । य- स्तामसः स भूताविः । यथोक्तं विष्णुपुराणे- वैकारिकस्तैजसश्च भूतादिश्चेव तामसः । त्रिविधोऽयमहंकारो महत्तत्त्वादजायत || इत्या- तन्मा- तत्र यस्तामसोऽहंकारः स भूतादिः । तस्मात् पंञ्चमहाभूतान्यभवन् । कानि तानि भूतानि । खकशिखिजलोव्यं: । खमाकाशम् । को वायुः । शिखी अग्निः | जलमुदकम् । उर्वो पृथ्वी । एतानि भूतानि स्वस्वगुणपू वंकाण्यभूवन् | शब्दस्पर्शरूपरसगन्धा काशादीनां मुख्यगुणाः । तत्राहंकाराच्छन्दतन्मात्रम् । गुणस्या तिसूक्ष्मरू पावस्थानं ऋश देनोच्यते । शब्दतन्मात्रादाकाशम् । आकाशात् स्पर्शतन्मात्रम् | वायो रूपतन्मात्रम् | तस्मात् तेज: | तेजसो रसतन्मात्रम् | तस्माज्जलम् । जलाद्गन्धत- मात्रम् | ततः पृथ्वी । एवमा का शादीन्ये कोत्तरगुणान्यभवन् । अथ च तेषां गुणानां श दादीनां ग्राहकाणोन्द्रियाणि । श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चेति पञ्च बुद्धीन्द्रि- याणि | वाक्पाणिपादगुदमेढाणोति पञ्च कर्मेन्द्रियाणि । अथोभयात्मकं मनः । न हीन्द्रियैः स्वातन्त्र्येण गुणग्रहणं कर्तुं शक्यते । अतस्तदधिष्ठातारो देवाः । तस्माद्वायुः । दिग्वातार्कप्र चेतोऽश्विवन्होन्द्रोपेन्द्रमित्रकाः | इति । श्रोत्रेन्द्रियस्य दिशः त्वचो वायुः । चक्षुषोरकं । जिह्वाया वरुणः | ना- सिकयोरश्विनौ । तथा वाचोऽग्निः । बाहोरिन्द्र: । पादयोविष्णुः । गुदस्य मित्र: । मेढ़- स्य प्रजापतिः । मनसश्चन्द्रः । इतीन्द्रियाधिदेवताः । तत्र यानीन्द्रियाणि तानि तेजसा- दहंकारात् । ये देवास्ते वैकारिकादभवन् । यथोक्तं विष्णुपुराणे --- तेजसादिन्द्रियाण्याहुदेवा वैकारिकाद्दश. एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः || इति । तत संहृतेश्च ब्रह्माण्डम् । एवमुत्पन्नानां तत्त्वानां समुदायात् पूर्वं प्राकृतिक प्रलपमिलित सकलजलधिजले बुदबुदाकारं ब्रह्माण्डमभवत् । तज्जठरे पद्माकारा मही । तत्र कर्णिका कारो मेरुस्तत्पृष्ठनिष्ठश्चतुर्वदनः कमलोद्भवस्तस्मात् सदनुजमनुजावित्यदैत्यं विश्वम-