पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलस्वरूप प्रश्नाध्यायः ३४१ आकृष्टशक्तिश्च महीति । गुरुवस्तु प्रथममायाति लघु तु पश्चादिति भूमेराकर्षण- शक्तिरोदृश्येवेति कल्प्यते दृष्टानुरूपकल्पनाया एव प्रामाणिकत्वात् । यया भूम्या खस्थमप्याकर्ष्यते तद्गतानामवःपतनमसंभावितमेव | "आकृष्टशक्तिश्च मही” त्यनेन भूमेरध: पतनं, तिर्यगत्रःस्थितानां चाधः पतनशङ्का निरस्तेति भाष्यकारो वक्ष्यते च । मूर्त्ते कुधर्त्तरि भवेदनवस्थिकेत्यादिना "भास्करकृतौ तदतो न युक्तम्” इति ज्ञानाधिराजेन यदुक्तं तदुपेक्षणीयम् । गोत्राचारधरा इति यदुक्तं तदप्ययुक्तम् । “शेषादयो वेदोदिता" इत्यत्र चिन्तामणिना सदाधारपृथिवीमिति श्रुतिदर्शिता नानया श्रुत्या शेषादय उच्यन्त इति सापि चिन्त्या । स्थैर्यं नाम शक्तिश्च तेषामित्य- नन्तशक्तिकल्पना कृता साप्ययुक्तैव | भूमेरेवैतादृशेकशक्तिकल्पनया सर्वाभिमतार्थ- सिद्धेः। विमलोऽयमब्धिजलस्य संचरः, समक्षाक्षप्रभावसञ्जितः, तदा व्याहेतुकत्वे सहेतुकत्वात् यदेवं तदेवं यथा दण्डजन्यो घट इत्यनेन चिन्तामणिना यदुक्तं तदप्य- युक्तम् । यत्तु क्षीरादिसमुद्रारम्भकं स्मृतिप्रणेतृप्रयुक्तरसशब्दाभिधेयद्रव्यत्वाल्लवण- वदिति यदुक्तं तदप्ययुक्तम् । गुड-शर्करा - नवनीत-समुद्राः कथं न भवेयुः, दधिघृत- समुद्रावपि न स्याताम् । स्वादकसमुद्रः कथमपि न सिद्धू येतेति यत्किञ्चिदेतत् । ननु पुराणे भूम्या: पातालगमनं श्रूयते । पातालादुद्धारो वराहकृत इति श्रूयते तत्कथं भवदुक्तनये घटत इति चेत् । उच्यते - द्वित्रिभूमिग्र उपरिगभूमेरध:- पतनमिव भूखण्डविशेषस्य पातालगमनं स्तम्भाद्याधारकत्वेनोर्ध्वगभूमेरुद्धार इव भूखण्डविशेषस्य वराहेणोद्धार इति सर्वं समञ्जसम् । तस्माज्ज्योतिश्शास्त्रेण भचक्र भ्रमणविरोध्याधारो भूमेनिराक्रियते । पुराणे भूम्यन्तर्गता एवाधारा: स्वीकृता इति सिद्धम् । मन्दधियस्तु तात्पर्यमजानन्तो नाम । किमाकारेति । स्पष्टम् । संसिद्धात् युगणाद् इत्यादि प्रश्नाः स्पष्टाः ॥ १-१० । श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्, भट्टाचार्यसुताद्दिवाकर इति ख्याताञ्जनि प्राप्तवान् । यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके, सत्सिद्धान्तशिरोमणेरियमगात्पृछास्वरूपाश्रिता li अथ भुवनकोशः अथ प्रथमप्रश्नस्य पृथ्वीसंस्थानोपपत्तेरुत्तरं विवक्षुरादिसमें पृथिव्यादीनां तत्त्वाना- मादितत्त्वं निखिल जगज्जन नैकबोजं परं ब्रह्म मनसा प्रणिपत्यादौ तावत् तज्जयमाह यस्मात् क्षुब्धप्रकृतिपुरुषाभ्यां महानस्य गर्भेऽ- हंकारोऽभूत् खकशिखिजलोर्व्यस्ततः संहतेश्च । यजठरगमहीपृष्ठनिष्ठाद्विरश्चे- ब्रह्माण्डं विश्वं शश्वज्जयति परमं ब्रह्म तत् तत्त्वमाद्यम् ॥ १॥