पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये 'स' भूमि विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् | इति श्रुतिभिर्विष्णोराधारत्वं प्रतीयते । क्वचित्पुराणविशेषे भूमेरधस्तादा- धारपरम्परास्वीकरणं प्रतीयते तत् । ३४० 'मूर्त्तो धर्त्ता चेद्धरित्र्यास्तदन्यः' । इत्यनेन निराकरिष्यते । मूर्त्ताधारपरम्परास्वीकारेऽनवस्थादोषो भचक्रभ्रम- णासंभवश्च । शेष-कूर्म-वराहाणामन्यतमेऽन्त्ये शक्तिकल्पनाद् भचक्रभ्रमणे न कोऽपि दोष इत्यत्र वक्ष्यते । “अन्त्ये कल्प्या चेत्स्वशक्तिः किमाद्य” इति । शेष-कूर्मवराहावतारग्रहणकाला: पुराणेषु श्रूयन्ते । अवतारग्रहणकालात् प्राग्यथान्तरिक्षस्थितत्वं स्वशक्त्या भूमेस्तथा पश्चादपि कथं न स्यात् । शेषादीनामन्त्यस्य यदन्तरिक्षे स्थैर्यमुच्यते तत्किमतिरिक्ता शक्तिर्वा स्वभावो वा । तत्राद्ये सा सहजा, किमागन्तुका वा । शेषादौ सहजशक्तेरभ्युपगमे सा कथं भूमावपि न स्यात् । आगन्तुकशक्तेरभ्युपगमे भूमिचेतनस्वरूपेणाधिष्ठितं भूमण्डल- मन्तरिक्षेऽस्तीति स्वीकारेणागन्तुका शक्तिर्भूमावेव कथं न स्यात् । श्रुतिप्रतिपादित - ब्रह्मविष्णुरुद्रप्रयुक्तागन्तुकशक्तिर्वा भूमौ भवतु । भूम्यन्तर्गंतशेषादिप्रयुक्तागन्तुकशक्तिर्वा भवतु, नास्माकमत्राग्रहः । ग्रहकक्षाभ्रमणविरोध्याधारो भूमेरधस्तान्नास्तीति ज्योतिश्शास्त्रतात्पर्या- वगमात् । शेषादौ तत्स्वरूपमात्र पर्यवसायिस्वभावाभ्युपगमे तादृशः स्वभावो भूमावेव कल्पनीयो लाघवात् । शेषादीनामीश्वरावतारतया तिसमर्थत्वेन अन्तरिक्षस्थितत्वस्वी- कारे महेशाष्टमूर्त्यन्तर्गतत्वेन भूमेरन्तरिक्षस्थितिरेव लाघवात्कल्पयितुं न्याय्येति वक्ष्यते “कि नो भूमि: साष्टमूर्तेश्च मूत्तिरिति” । तस्माद्भूमेरधःप्रदेशानिर्वचनान्न कुत्राप्याधारः कल्पयितुं शक्यते, सर्वत्र वा कल्पनीयः स्याद् । य एव आधार : कल्प्यते स एव पृथिव्याधेयः कुलाचल इव कथं न स्यात् । कथमियं भूमेः शक्तिरित्याशङ्कां भूमिस्थैर्यदर्शनेनेति दृष्टान्तपुरःसरं निरा- करिष्यते "यथोष्णतार्कानलयोः" इति । भूमौ चेदचलत्वं तदा तदंशेऽपि किं न स्यात् तोयांशे द्रवतेतिवद् आशङ्का तु चुम्बकपाषाणविशेषस्यैव लोहाकर्षणं दृष्टं नान्यस्ये-- तिवत् । मृत्पिण्डस्याचलं नास्ति सर्वचराचरनिवासभूमेरेवाचलत्वमिति कल्पनात् सुपरिहरैव । अन्तरिक्षस्थितं गुरुवस्तु न पतत्येव सत्यादिलोकवद् ग्रहनक्षत्रादि- बिम्बवद्वा । अन्तरिक्षस्थितस्य मृत्पिण्डादेर्भूमौ पतनं न गुरुत्वाधिकरणत्वेन, किन्तु संभवतीति भूम्याकर्षणेनेति भूमेराकर्षकाभावात्पतनमेव न युत्तयन्तरेण प्रतिपादयिष्यते । १. ऋ० सं० १०।९०।१ ।