पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलस्वरूपप्रश्नाध्यायः ३३९ "भूकम्प” । इति कश्यपगर्गंसंहितोक्तिर्यत्किञ्चिद्भूखण्डाधारत्वे संगच्छते । अन्यथा शेष- भूगोलाधारकत्वे सर्वत्रापि भूकम्पः कथं न स्यात् । “अन्तर्जंलनिवासिसत्त्वकृतो भूकम्पः दिग्गजविश्रान्तिसमुद्भव" इत्यादिसंहितापुराणोक्तानि भूकम्पनिमित्तानि स्मृति- त्वाविशेषेण यत्किञ्चिदभूमिखण्ड कम्पविषयदानेनैव संभावनीयानि । एतेषु पक्षेषु पापसञ्चयेन सञ्जातभारातिशयभूमिखण्डधरणखिन्नत्वाद्विश्रान्ति- रावश्यकी शेषस्य दिग्गजानाञ्च | जलान्तर्गतसत्त्वानां लोकादृष्टेन तादृशभूमिकम्पकर्तृत्वमिति कल्प्यम् । भूकम्पे भूचलनशब्दो लाक्षणिकः । अङ्गस्फुरणवद् भूमिखण्डविशेषे कम्पः प्रतीयते न तु स्थानान्तरचलनं भूखण्डस्य | भूमेश्चेतनं स्वरूपान्तरमप्यस्ति । भूमेब्रह्मलोक- गमनश्रवणाद् भगवन्नाम ममैतत्त्वया कृतं यदचलेति, तत्र तथेति भूमिवाक्यश्रवण- प्रामाण्यात् । यद्यपि ब्रह्मलोकगमनं, ब्रह्मणा भूमेः संवादोऽर्थवादस्तथापि भूतार्थवाद- प्रामाण्याद्देवताविग्रहादिसिद्धिवद् भूमेविग्रहादि सिद्धयत्येव । अर्थवादस्त्रिविधःगुणवादानुवादभूतार्थवादभेदात् । तथाहुः - विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थव दस्त्रिधा मतः || इति । “यजमानः प्रस्तरः" इत्ययं गुणवाद: । ""वायुर्वेक्षेपिष्टा देवता" इत्ययमनुवादः । “ वज्रहस्तः पुरन्दरः" इत्ययं भूतार्थवादः । विधेयस्तुतिपराणामर्थवादानां स्तुति - द्वारभूतेऽर्थे तात्पर्याभवेऽपि प्रामाण्यं तिष्ठत्येव । विदर्भदेशे गन्तव्यमिति तात्पर्येण प्रयुक्तस्य सौराज्यरम्यो विदर्भ देश इति वाक्यस्य प्रत्यक्षसिद्धे सौराज्यरम्यत्वे प्रामाण्यदर्शनवत् । एवं ग्रहाणामपि बिम्बेभ्योऽन्यत्स्वरूपं सिद्धयति । भूमिचेतनस्वरूपेणाधिष्ठितं सर्वाधारभूमण्डलस्वरूपं विहगादिवद् अन्तरिक्षे स्थातुं कथं न प्रभवेत् । भूम्यन्तर्गता- धारेऽस्माकं न कापि क्षतिरिति भचक्रस्याधारे स्खलितस्य भ्रमणं नोपपद्यत इति भाष्ये[ण] स्पष्टमेवाभिहितम् । “हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत् । "सदाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम" | १. तै० सं० ३१४|३|२| ३. शु० य० सं० १३।४ । २ ५. तै० सं० ५।५।९।३ । इति श्रुतेहिरण्यगर्भस्याधारत्वं प्रतोयते । यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्राय नमोऽस्तु इत्यादि श्रुतिभिर्भूम्यन्तर्यामितया रुद्रस्यापि प्रतीयते । २. तै० ब्रा० २।६।७।२ । ४. ऋ० सं० १०।१२१११ यजु० सं० १२ १०२ ।