पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ सिद्धान्तशिरोमणी गोलाध्याये सति गुरुत्वाधिकरणत्वे सति पतनानाश्रयत्वाद् यदेवं तदेवं यथा जनपदमस्तको- परि जलपरिपूर्ती घट इत्यनुमानेन भुवः साधारत्वे भचक्रस्याधारे स्खलितस्य भ्रमणं न संभवति । भूव्यासोनं चन्द्रकर्णे योजनेभ्योऽर्वाग् आधारकल्पनेन द्वादशयोजनेभ्योऽ- र्वाग् आधारकल्पनेन वा भचक्रभ्रमणसंभवेऽपि भूम्याधारस्येयत्तावच्छिन्नपरिमाणाधि- करणलक्षणलक्षितस्य मूर्तस्याधारान्तरमपेक्षितम् । एवं मूर्ताधारपरम्परास्वीकारे भचक्रभ्रमणं न संभवति । किञ्च योऽप्याधारो वक्तव्य : सोऽपि १ पृथिवी विश्वस्य धारिणीति श्रुत्या विश्वान्तर्गतत्वेन धराधरपदाभिधेयकुलाचल इव । यो यत्र तिष्ठत्यवनीं तलस्थामात्मानमस्या उपरि स्थितञ्च | स मन्यते इति वक्ष्यमाणप्रकारेण कथं पृथिव्याधेयो न स्यात् । किञ्च "सर्वतः पर्वता- रामग्रामचैत्यचयैश्चितो भूगोल" इति सर्वत्र भूगोले सस्यनिष्पत्त्यर्थं पाकार्थवृष्टेरनु - कूलत्वस्वीकारेऽग्नेरूर्ध्वज्वलनस्वीकारे च समन्तादाकाशस्य स्थितत्वात्सर्वेषां भूमिरे- वाधः संभवति । न भूमेः क्वाप्यधः प्रदेश: संभवति प्रतियोगिसापेक्षत्वादधः प्रदेशेऽप्याधारः कल्पनीय इति भूमेरधः प्रदेशाभावान्न क्वाप्याधारः कल्प- यितुं शक्यते । सिद्धपुरस्थानां लङ्कायामध: प्रदेश इव सर्वत्राप्याधारो भूगोले वा कल्पनीयः स्यात् । तस्माज्जनपदमस्तकोपरि घट इव न केनाप्याधारेण भूगोलो ध्रियत इति सर्वेषां सिद्धान्तः । अत एव सूर्यसिद्धान्ते --- मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति । बिभ्राणः परमां शक्ति ब्रह्मणो धारणात्मिकाम् || इत्युक्तम् । आधार कल्पनाभावात्कूर्मस्यापि शरीरिणः । अनवस्थाप्रसङ्गाच्च खे भूस्तार्क्ष्यवदाश्रिता || इत्यनेन शाकल्यसंहितायामुक्तञ्च | पुराणेषु तु शेषकूर्मवराहाः पृथिवीपुटरूपया तलावस्थिता उक्तास्तेषां भूम्यन्तर्गतत्वेन । यत्किञ्चित्पातालोपरिगभूखण्डधारणादशेष- भूगोलधारणक्षमत्वोपचारेण च भूम्याधारत्वेऽपि भिन्नविषयत्वात् सिद्धान्तपुराणा- विरोधः । सिद्धान्तैर्भूमेरधःप्रदेशे आधारो नास्तीति प्रतिपाद्यते । पौराणिकैस्तु भूम्यन्तर्गता आधारा वर्तन्त इति न कोऽपि विरोधः । तेनेयं नागवर्येण शिरसा विधृता मही । भूभारखिन्ननागेन्द्रशीर्षविश्रामसम्भवः ॥ २. सिं० शि० गो० भु० १६ श्लो० । १. मुण्डको० २१११३० । ३. सू० सि० १२ अ० ३२ श्लो० ।