पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलस्वरूपप्रश्नाध्यायः ३३७ लम्बनं बत किं का च नतिर्मतिमतां वर । तत्संस्कृतिस्तिथौ बाणे किं ते सिद्धे कुतः कुतः ॥९॥ वा० भा० - अत्र किल प्रष्टुरयमभिप्रायः । चन्द्रग्रहणे भूभा ग्रहणकर्त्री । पौर्णमास्यन्ते भूभेन्द्रोस्तुल्यत्वाद्युतिर्भवितुमर्हति । एवं सूर्यग्रहे चन्द्रश्छादक: । दर्शान्ते तयोस्तुल्यत्व द्योगेन भवितव्यम् । अत उक्तम् 'तिथ्यन्ते चेद्ग्रह उड़पते: कि न भानोस्तदानीमिति ।' बत अहो गणक लम्बनं नाम कि नतिश्च का। तत्संस्कृतिस्तिथो बाणे च किम् । लम्बनेन तिथि: संस्क्रियते नत्य । कि बाणश्च । तथान्यः प्रश्नः । ते सिद्धे कुतः कुत इति । ते लम्बनावती कुतो हेतोः कुतः पृथिव्याः साञ्चिते । भूव्यासार्धेन साधिते इत्यर्थः । तथेन्दोः प्राच्यां दिशि स्पर्श: । कि रवे: प्रतीच्यामित्यादि सर्वं वद ८-९ । अथ शृङ्गोन्नतो चन्द्रशुक्लस्य क्षयवृद्धिप्रश्नमाह- शुक्लस्य द्विजराज एष महसो हान्या कुवृत्तः कुतः सद्वृत्तत्वगतोऽप्यहो संप्राप्याथ भ्रमभवाद्दोषातिसङ्गादिव । पुनस्त्रयीतनुमतस्तस्यायेणैव किं शुक्लस्य क्रमशस्तथैव महसो वृद्धयैति सद्वृत्तताम् ।।१०। वा० भा० -- अहो गणक एष द्विजराजश्चन्द्रः सद्वृत्तत्वं गतोऽपि पौर्णमास्यां सुवर्तुलतां प्राप्तोऽपि कुतो हेतोः कुवृत्तः कुवर्तुलो भवति । भ्रमभवाद्दोषातिसङ्गादिव | दोषा रात्रि: । तथा. पौर्णमास्यां सकलया सकलस्यापि चन्द्रस्य यः सङ्गः सोऽतिसङ्गः | तत्सङ्गानन्तरं शुषलस्य तेजसो हानि याति । तथा हान्या कुवृत्तः कुत्सितवृत्तः स्यादितीव प्रतिभाति । यथा द्विज राजो ब्राह्मणोऽपि सद्वृत्तत्वं सदाचारत्वं गतोऽपि भ्रमभवाच्चित्तचलनसंभवाद्दोषातिसङ्गात् पापातिसङ्गाच्छुक्लस्य शुद्धस्य तेजसो हानि याति । तया कुत्सितवृत्तः स्यात् । अथ पुन- स्त्रयोतनुमादित्यं प्राप्य ततोऽनन्तरं शुक्लस्य तेजसो वृद्धया तथैव सद्वृत्ततां सुवर्तुलतां प्रा- प्नोति । तस्य भगवतस्त्रयोतनोराश्रयेणैव यथा कुवृत्तो ब्राह्मणस्त्रयीतनुं त्रैविद्यं पर्षस्त्रेविद्य. मेव वेति स्मृत्युक्तं पर्षद्रपमन्यं ब्राह्मणं प्राप्य तेन कृतानुग्रहस्ते जोवृद्धि तथा पुनः सुवृत्तता- मेतीत्यर्थान्तरम् ।। १० । इति सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे गोलाध्याये गोलस्वरूपप्रश्नाध्यायः ॥ वा० वा० --- अथ शिष्यबुद्धयनुकूलनाय गोलस्वरूपप्रश्नाध्याग्रमारभते । तत्र भूसंस्थान प्रश्नं श्लोकद्वयेनाह – भ्रमद्भचक्रेति, किमाकारेति । अत्र भाष्यम् । इयं भूर्गंगनेचरैर्वृता केन धृता सती गगने परितो वर्त्तमानेऽधो नेयात् न गच्छेत् । कथमियं गगने स्थितेत्यवगतं ? यतो भ्रमद्भचक्रचक्रान्तवर्तते । भानां चक्रं समूहः । भचक्रमेव चक्रं भचक्रचक्रम् । यदि भूमेर्मूर्ताधारपरम्पराङ्गीक्रियते तदा समन्ताद्वर्त्तमानध ( घ) नभचक्रस्या- धारे स्खलितस्य भ्रमणं नोपपद्यत इत्यर्थः । भूमिराधारधृता तथाविधप्रयत्नाभावे सि० - ४३