पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ गोलाध्याये प्राप्त्यादिफलका यात्रोक्ता ? | स्वरशास्त्रे युद्धकाल एव बहुकालानली यात्रोक्तेति विषयभेदः स्पष्ट एव । युद्धजयाजयविचारश्च स्वरशास्त्रगोचरः । गोचरवेधाष्टकवर्गा- दिस्थूलविचारोऽपि संवदत्येवेति च सर्वं सप्रमाणकम् । भाविशुभाशुभफलज्ञानमनिर्ज्ञानोपायमिति त (दू ? ) दज्ञानोपायानां बहु- वादृष्टार्थानां समुच्चय एव न्याय्यः | आयुषश्छेदेऽरिष्टमिति तद् भङ्गो विचार्यः । एवमायुर्दायप्रकारभेदे पापः पापदशां विशेत् स च विपत्कर्तेतिवद् रिष्टकल्पना ( यां ? न कोऽपि दोष इति सर्वत्र समाधेयं शास्त्रप्रामाण्यात् । ज्योतिर्वित्स्वरूपं यादृशमुक्तं गर्गादिसंहितासु तादृशेन ज्योतिर्विदा कृतं शुभाशुभ- फलादेश एव संवदति नान्य इत्यपि कल्प्यम् । ग्रहणाद्या देशो प्यादेशानामन्यतम इति ज्योतिश्शास्त्रफलमादेश इत्युक्तम् । तत्र वात्तिके स्मृति चरणे भट्टपादैरुक्तम् - "ज्योतिः शास्त्रेऽपि युगपरिवर्त्तपरिमाणद्वारेण चन्द्रादित्यादिगतिविभागेन । ग्रहसौष्ठ्यदौष्ट्यनिमित्तकृतं तिथिनक्षत्रादिज्ञानमविच्छिन्नसम्प्रदायगणितानुमानमूलम् शुभाशुभकर्मफलविपाकसूचनन्तु तद्गतशान्त्यादिद्वारेण वेदमूलम् | ईदृशा वा विधयः सर्वत्रानुमातव्याः | ईदृशे गृहशरीरादिसन्निवेशे तदेतत्प्रतिपत्तव्यमिति । ईदृशा वैस्य राणकव्याख्या | पूर्वं शान्त्यादिविधानद्वारेण वेदमूलकत्वमुक्तम् । सम्प्रति तु साक्षादेव तत्प्रतिपदा विधयोऽनुमातव्या इत्याह - ईदृशा वेति । गृहसन्निवेशो वास्तुविद्या- विषय: । शरीरसन्निवेश: सामुद्रादिविषयः । आदिशब्दोपात्तानां ग्रहाणां सौष्ठ्य- दौष्ट्यरूपः सन्निवेशो ज्योतिश्शास्त्रविषय इति वेदमूलकत्वेन प्रामाण्यमादेशः फलमिति स्पष्टम् । होराशास्त्रादेशो लग्नबलाश्रितो, लग्नबलं स्पष्टखेटाश्रयं, स्पष्टखेटाश्च गोला- श्रयणः, गोलज्ञानं गणितैकगम्यमिति स्पष्टम् ॥ ६ ॥ इदानों ज्योतिरशः स्त्रश्रवणाधिकारिलक्षणमाह - - ३३४ द्विविधगणितमुक्तं व्यक्तमव्यक्तयुक्तं तदवगमननिष्ठः शब्दशास्त्र पटिष्टः । यदि भवति तदेदं ज्योतिषं भूरिभेदं प्रपठितुमधिकारी सोऽन्यथा नामधारी ||७| वा० भा० – स्पष्टार्थम् ॥ ७ ॥ वा० वा०—ज्योतिश्शास्त्राध्ययने कीदृश अधिकृयत इत्याह — द्विविधमिति । पठितशब्दशास्त्रः पठितद्विविधगणितश्चाधिकारी । ज्योतिर्ज्ञानं विद्यते ग्रस्मिन्निति ज्योतिषमर्षं आदिभ्यो वा । शेषं स्पष्टम् ।। ७ । अथ व्याकरणवर्णनमाह - यो वेद वेदवदनं सदनं हि सम्यग्ब्राह्मथाः स वेदमपि वेद किमन्यशास्त्रम् । यस्मादतः प्रथममेतदधीत्य धीमान् शास्त्रान्तरस्य भवति श्रवणेऽधिकारी ॥८॥ वा० मा० ० - स्पष्टार्थम् । ६ । वा० वा० - व्याकरणाध्ययनेनैव सर्वशास्त्राध्ययनेऽधिकार इति व्याकरणा- ध्ययनं प्रथममावश्यकमित्याह – यो वेदेति ॥ ८॥