पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलस्वरूपप्रश्नाध्यायः अथात्मनो गोलग्रन्थस्य प्रवृत्त्यर्थमन्योक्तिप्रकारेणाह- गोलं श्रोतुं यदि तव मतिर्भास्करीयं शृणु त्वं नो संक्षिप्तो न च बहुवृथाविस्तरः शास्त्रतत्त्वम् | लीलागम्यः सुललितपदः प्रश्नरम्यः स यस्माद्- विद्वन् विद्वत्सदसि पठतां पण्डितोक्तिं व्यक्ति ॥ ९ ॥ वा० भा० - स्पष्टम् ।। ९ । इति गोल प्रशंसा | वा० वा० – अन्योक्तिप्रकारेणात्मनो गोलस्य वैशिष्ट्य माह — गोलं श्रोतुं इति स्पष्टम् ।। ९ । श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्- भट्टाचार्यसुताद्दिवाकर इति ख्याताजनि प्राप्तवान् । यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके, मत्सिद्धान्तशिरोमणेरियमगात् गोलप्रशंसा स्फुटा ॥ अथ गोलस्वरूपप्रश्नाध्यायः अथ भूसंस्थान प्रश्नं इलोकद्वये नाह भ्रमद्भचक्रचक्रान्तर्गगने गगनेचरैः । वृता धृता धरा केन येन नेयमियादधः ॥ १॥ किमाकारा कियन्माना नानाशास्त्रविचारणात् । कीदृग्द्वीपकुलाद्रीन्द्र समुद्र मुद्रि तोच्यताम् ॥२॥ ३३५ वा० भा० – इयं भूगंगनेचरैः खेचरैवृंता केन घृता सती गगने परितो वर्तमानेऽथो नेयान्न गच्छेत् । कथमियं गगने स्थितेत्यवगतम् । यतो भ्रमद्भचक्रचक्रान्तर्वर्तते । भानां चक्रं संमूहः । भचक्रमेव चक्रं भचक्रम् । यदि भूमेमूंर्ताधारपरंपराङ्गीक्रियते तदा समन्ताद्वर्तमानघनभचक्र- स्याधारे स्खलितस्य भ्रमणं नोपपद्यत इत्यर्थः । तथा च सा भूः किमाकारा कियन्माना द्वीपानां कुलावलेन्द्राणां च कोद्गवस्थानमिति सर्वं नानाशास्त्रविचारणात् । बौद्धादिप्रतिवादि- पक्षमधरोकृत्योच्यतामित्यर्थः ॥ १-२ | इवानों ग्रहस्फुटीकरणोपपत्तिप्रश्नान् श्लोकद्वये नाह संसिद्धाद्युगणाद्युगादिभगणैः खेटोऽनुपातेन यः स्यात् तस्यास्फुटता कथं कथमथ स्पष्टीकृतिर्नैकधा ।