पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये इदानों गोलप्रशंसया गोलानभिज्ञगणकोपहासं श्लोकद्वयेनाह - 'भोज्यं यथा सर्वरसं विनाज्यं राज्यं यथा राजविवर्जितं च । सभा न भातीव सुवक्तृहीना गोलानभिज्ञो गणकस्तथात्र ॥ ३ । वादी व्याकरणं विनैव विदुषां धृष्टः प्रविष्टः सभां जल्पन्नल्पमतिः स्मयात् पटुबटुभ्रूभङ्गवक्रोक्तिभिः | हीण: सन्नुपहासमेति गणको गोलानभिज्ञस्तथा ज्योतिर्वित्सदसि प्रगल्भगणकप्रश्नप्रपञ्चोक्तिभिः२ ।। ४ । ३३० वा० भा. — स्पष्टार्थम् ॥३-४। वा० भा० गोलप्रशंसाथं गोलानभिज्ञदूषणमाह-भोज्यमिति । वादी व्याकरणमिति । नहि निन्दानिन्दितुं प्रवर्त्तते । किन्तु विधेयं स्तोतुमिति न्यायेन श्लोकद्वयमुक्तम् ॥३-४। अथ गोलस्वरूपमाह- एवावनिभग्रहाणां संस्थानमानप्रतिपादनार्थम् । गोलः स्मृतः क्षेत्रविशेष एष प्राज्ञैरतः स्याद्गणितेन गम्यः ।। ५ । उदृष्टान्त ० -- स्पष्टार्थम् ॥ ५ ॥ वा० भा०-- वा० वा० – अथगोलस्वरूपमाह - दृष्टान्त एवेति । गोल: क्षेत्रविशेष एव । दृष्टान्तोऽवनि-भ-ग्रहाणां संस्थानमानप्रतिपादनार्थम् । गोलदृष्टान्तेन निखिलग्रहगणित- प्रतिपाद्यपदार्थस्वरूपयुक्तिप्रतिपादनाद् ग्रन्थस्यापि गोलाभिधेयता । क्षेत्रविशेषो गणित- गम्य एव भवति ॥ ५॥ १. अत्र श्रीपतिः- यद्वदिन्दुरहिता न शर्वरी भाति शीलरहिता न चाङ्गना । ब्राह्मणश्च न चरित्रवजितस्तद्वदेव गणको ह्यगोलवित् ( सि० शे० १५ अ, २ श्लो० ) लल्लोऽपि - शशधर किरणविना प्रदोषः कुचरहितं ललनाजनस्य वक्षः । मधुररसविवर्जितञ्च भोज्यं न किमपि गोलविवर्जितं च तन्त्रम् | शि० धीवृ० १५ अ० २ श्लो० । २. अत्र श्रीपतिः - अविदितपदलक्ष्यो बावदूकोऽपि यातश्चतुरबुधसभायां यद्वदायाति हास्यम् । ग्रहगणित विदेवं गोलतत्त्वानभिज्ञो गणकसदसि विद्वच्चक्रवक्रोक्तिदीनः ॥ सि० शे० गो० १५ अ० ३ इलो० । ३. अत्र श्रीपतिः-- ग्रहनक्षत्रधरित्री संस्थानस्येह दर्शनोपायः । गोल इति कथ्यतेऽसौ क्षेत्रविशेषो गणितगम्यः || सि० शे० गो० १५ अ० ६ श्लो० ।