गोलप्रशंसा ३२९ देशान्तरसंस्कारे कृतेऽवश्यं स्पर्शो दृश्यत एवेति प्रत्यक्षाविरोधे तात्पर्यं स्वस्य बोधितमेव । १८८ "युगे युगे महर्षीणाम्” । इति.. २" कालभेदोऽत्र केवलम्” । इति 3 " यथा दृक्तुल्यतां ग्रहाः । प्रयान्तीति" ४“ स्फुटं दृक्तुल्यतां गच्छेदयने विषुववये" । इति तात् “गोलं बद्ध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटमित्येवमादीनि प्रत्यक्षाविरोधे गमयन्ति । सिद्धान्तभेदेऽपि तदविरोधाय प्रत्यक्षाविरोधतात्पर्यमेव नः शरणम् । स्वप्रणयनकालीनप्रत्यक्षमुपजीव्य प्रागभिहितम् । सिद्धान्तकरणादार्षंसिद्धान्तविरोध इति अथवा श्रुतिमात्रं प्रत्यक्षात् प्रबलमस्तु । स्मात्तंश्रुतेर्ग्रहगणितागतपदार्थेयत्तायां वा तात्पर्यंमस्तु । तथापि श्रुतिबाधितमपि प्रत्यक्षं कथञ्चित् स्वोचितविषयोपहारेण सम्भावनीयं निविषयकज्ञानायोगादिति तात्कालिकसर्वजनप्रत्यक्षानुरोधेन स्मात्तं- श्रुतेनंयनं युक्तमेव । यथा च प्रस्तरे यजमानभेदग्राहिणि यावद्ब्रह्मज्ञानम् अर्थक्रिया- संवा देनानुवर्तमानस्य प्रत्यक्षस्य प्रातिभासिकविषयत्वाभ्युपगमेनोपपादनायोगाद् “यजमानः प्रस्तरः” इति श्रुतिबाध्यत्वे सर्वथा निर्विषयत्वं स्यादिति तत्परिहारायो- त्सगंमपोह्य श्रुतिरेव तत्सिद्धयधिकरणादिप्रतिपादितप्रकारेणान्यथा नीयते तथात्राप्य - वगच्छ ““वेलाहीने पर्वणि गर्भविपत्तिश्च शत्रकोपश्च" इति ग्रहगणितागतस्पर्शादिकालात्प्राक् स्पर्शादिदर्शनमौत्पातिकमिन्द्रजाल- वदिति, तदविरोधाय बीजादिसंस्कारेण ग्रहगणितप्रतिपादकस्मार्त्तश्रुतेर्नान्यथा नयनं युक्तम् । प्रकृतेरन्यत्वलक्षणा उत्पाता यत्र देशे मनुष्यापचारपापसञ्चयस्तत्रैव भवन्ति । बीजादिसंस्कारो ग्रहस्य सर्वदेशेष्वपि तुल्य एव सर्वैदृश्यत इति स्पष्टवैलक्षण्यम् ।
- अपचारेण नराणामुपसर्गः पापसञ्चयाद् भवति ।
संसूचयन्ति दिव्यान्तरिक्षभौमास्त उत्पाता : ७ । 'मनुजानामपचारादपरक्ता देवता: सृजन्त्येतान् । तत्प्रतिधाताय नृपः शान्ति राष्ट्र प्रयुञ्जीत इति वराहेणोत्पातनिमित्तमुक्तम् । उत्पातव्यतिरिक्तस्पर्शादिदर्शनप्रत्यक्षानुसारेण ग्रहगणितशास्त्रनयनं युक्तम् । तस्माद् ग्रहणाद्यादेशः परम्परया गोलस्य फलमिति युक्तम् ॥ २ ॥ १. सू० सि० म० ८ श्लो० । ३. सू० सि० स्प० १४ श्लो० । ५. बृ० सं० ५ अ० २४ इलो० । ७. मुत्पाकपु । ९ शान्तिराष्टे, इ० क ख पु० । सि० – ४२ २. सू० सि० म० ९ श्लो० । ४. सू० सि० त्रि० ११ श्लो० । ६. बृ० सं० अ० ४५।२ श्लो० । ८. बृ० सं० अ० ४५। ३ श्लो० ।