पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ सिद्धान्तशिरोमणी गोलाध्याये बलोयस्त्वे "यजमानः प्रस्तरः" गौणीवृत्तिर्न कल्पनीया । तथा “सोमेन यजेत" इत्यत्र वैय्यधिकरण्येनान्वये यागे इष्टसाधनत्वं सोमलतायां यागसाधनत्वं च बोधनीयमिति व्यापार-भेदेन वाक्यभेदापत्तेः । सामानाधिकरण्येनान्वये वक्तव्ये प्रत्यक्षाविरोधाय सोमवता यागेनेति मत्वर्थलक्षणा न कल्पनीया स्यात् । अथवा तात्पर्यवती श्रुतिः प्रत्यक्षाद् बलवती न श्रुतिमात्रम् । मन्त्रार्थवादानां श्रुतिद्वारभूतेऽर्थे वाक्यार्थद्वारभूते पदार्थं इव न तात्पर्यम् । ननु तात्पर्याभावे मानान्तराविरुद्धदेवताविग्रहादि कथं तेभ्यः सिध्येत तात्पर्य - वत्येव शब्दस्य प्रामाण्यनियमादिति चेन्न । "एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसामकृत्वा पशुकामो ह्येतेन यजेत" इति विशिष्टविधेस्तात्पर्यागोचरे विशेषणस्वरूपे प्रामाण्यदर्शनेनोक्तनियमासिद्धेः । अत्र हि रेवती ऋगाधारं वारवन्तीयं सामविशेषणं न चैतत्सोमादिविशेषवल्लोक- सिद्धम् | येन तद्विशिष्टयागविधिमात्रे प्रामाण्यं वाक्यस्य स्यात् । नापि विशिष्टविधिना विशेषणाक्षेपः । आक्षेपाद्विशेषणप्रतिपत्तौ विशिष्टगोचरो विधिस्तस्मिंश्च सति तेन विशेषणाक्षेप इति परस्पराश्रयापत्तेः । अतो विशिष्टविधिपरस्यैव वाक्यस्य विशेषण- स्वरूपेऽपि प्रामाण्यं वक्तव्यम् । अथ तत्र न तात्पर्यम् । उभयत्र तात्पर्ये वाक्यभेदापत्तेः । एवमर्थवादानामपि विधेयश्रुतिपराणां स्तुतिद्वारभूतेऽर्थे न तात्पर्यमिति तेभ्य: प्रत्यक्षस्यैव बलवत्वात्तद- विरोधाय तेषु वृत्त्यन्तरकल्पनम् । “सोमेन यजेत" इत्यत्र विशिष्टविधिपरे वाक्ये सोमद्रव्याभिन्नयागरूपं विशिष्टं विधेयमित्युपगमे तस्य विधेयस्य “दध्ना जुहोती" त्यादी विधेयस्य दध्यादेरिव लोकसिद्धत्वाभावेन विधिपराद्वाक्यादेव रेवत्याधारवार- वन्तीयादिविशेषणस्येव विना तात्पर्य सिद्धिरेष्टव्या | न तात्पर्यरहितादागमाद्यागसोमलताभेदग्राहिप्रत्यक्षविरुद्धार्थः सिध्यतीति तत्रापि तदविरोधाय मत्वर्थलक्षणाश्रयणम् । प्रकृते सौरादिस्मात्तंश्रुतिर्दृग्ग्राह्यपदार्थेय- त्तायामेव तात्पर्यवती । ततोऽस्याः प्रत्यक्षेणाविरोध एव । तात्पर्यरहिता ग्रहगणिता- गतपदार्थेयत्ताप्रतिपादका स्मार्त्तश्रुतिर्ग्रहगणितागतस्पर्शसमये ग्रस्तं चन्द्रं नाद्राक्षमधुना ग्रस्तं चन्द्रं पश्यामीति सर्वजनानुभवसिद्धप्रत्यक्षादुर्बलैवेति प्रत्यक्षानुरोधेन स्मार्त्तश्रुतेः प्रत्यक्षसाम्यसम्पादनं युक्तम् । उ अतीत्योन्मीलनादिन्दोक्सिद्धिर्गणितागता । यदा भवेत्तदा प्राच्यां स्वस्थानं मध्यतो भवेत् ॥ इति स्वमध्य रेखा-स्वस्थानान्तरयोजनोत्पन्नपूर्वापरदेशान्तराज्ञाने देशान्तर- ज्ञानप्रतिपादकेन सौरेण देशान्तरासंस्कृतत्त्वादेव स्पर्शसमये स्पर्शो न दृश्यते । १. ताण्ड्य ब्रा० १७७ १ । २. मनता के पु० । ३. सू० सि० म० ७३ श्लो० । किन्तु दिन्दोः पश्चात्तद्गणितागतात् इति मु० पु० ।