पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • श्रीगणेशाय नमः ॐ

सिद्धान्तशिरोमणिः वासनभाष्यवात्तिकसहितः । गोलाध्यायः अथ गोलाध्यायो व्याख्यायते । बा० भा० - गोलाध्याये निजे या या अपूर्वा विषमोक्तयः । तास्ता बालावबोधाय संक्षेपाद्विवृणोम्यहम् || गोलग्रन्थो हि सविस्तरतया प्राञ्जलः । किन्तु अत्र या या अपूर्वा नान्येरुक्ता उत्तयो विषमास्तास्ताः संक्षेपाद्विवृणोमि । अत्र या या इति प्रथमान्तं पदं तास्ता इति द्विती- यान्तं पदं बुद्धिमता व्याख्येयम् । तत्रादौ तावदभीष्टदेवतानमस्कारपूर्वकं गोलं ब्रवीमोत्याह- सिद्धिं साध्यमुपैति यत्स्मरणतः क्षिप्रं प्रसादात् तथा यस्याश्चित्रपदा स्वलङ्कृतिरलं लालित्यलीलावती । नृत्यन्ती मुखरङ्गगेव कृतिनां स्याद्भारती भारती तं तां च प्रणिपत्य गोलममलं वालावबोधं ब्रुवे ।। १ । वा० भा० - ब्रुवे वच्मि । कः । कर्ताहं भास्कर: । किम् | गोलं गोलाध्यायम् । किंविशि- ष्टम् । अमलं निषणम् । पुनः किंभूतम् | बालावबोधम् । अविषममित्यर्थः । कि कृत्वा । प्रणिपत्य प्रणिपातपूर्वकं नमस्कृत्य | कम् तम् । न केवलम् तम् । तां च । स कः । सा च का तदाह । यस्य देवस्य स्मरणात् पुंसां साध्यमभीष्टं क्षिप्रं शीघ्रं सिध्यति । सोऽ- र्थाद्विघ्नराजः । तथा यस्या देव्याः प्रसादात् कृतिनां विदुषां भारती वाणी नृत्यन्ती भार- तोव स्यात् । भारती नर्तकस्त्री च । कर्थभूता वाणी नर्तकी च | चित्रपदा विचित्रपदवि- न्यासा । स्वलङ्कृतिः शोभनालङ्कारमुद्राङ्किता । लालित्यलीलावती माधुर्यगुणसंपन्ना | कथं वाक् नृत्यन्तीति चेत् । स्रवदमृतबिन्दुसन्दोहसदृशसुर ससुकोमलोक्तिगुणा गद्यपद्यमयो चतुरजनमनश्चमत्कारकारिणी वाणी नृत्यन्तीव भाति । किंविशिष्टा भारती । मुखरङ्गगा । मुखमेव रङ्गो मुखरङ्गः । रङ्गो नृत्यस्थानम् । यस्याः प्रसादात् कृतिनां मुखेष्वेवंविधा भारती स्यात् । सार्थात् सरस्वती । तां च प्रणिपत्येति । मङ्गलादीनि मङ्गलान्तानि च शास्त्रा- व्यलङ्कारकृतां मतान्यतः सिद्धिबृद्धिशब्दावाद्यन्तयोनिक्षिप्तौ ॥ १ ॥