पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाताधिकारः भूमौ याम्योत्तरां रेखां कृत्वा तस्यां रेखायां बिन्दुं च कृत्वा स बिन्दुः किलोत्तरश्चन्द्रस्यायनसन्धिः कल्पितः । अयनसन्धौ यावत् क्रान्त्यन्तरं तस्याद्यसंज्ञा पूर्व कल्पिता । तस्याद्यस्य यावत्यः कला- स्तन्मितैरङ्गुलैरयनान्तादुत्तरतोऽन्यं बिन्दु कृत्वा तत्र रविस्वाहोरात्रवृत्तं कल्प्यम् । तत्र च रवि- बिम्बाधकला मितैरङ्गुले रविबिम्बं विलिख्य तस्माद्रविबिम्बमध्याद्दक्षिणतो मानैक्याधंकलामिते- रङ्गुलैरन्यो बिन्दुः कार्यः । तयोरचन्द्रार्कबिम्बयोः प्रान्तौ संलग्नौ ।' (यदायनान्तमुपसपंतश्चन्द्रस्य कालेन वृत्तं भवति । अयनान्तमनुप्राप्तस्य यत् तत्राहोरात्रवृत्तं भवति तत् तत्रस्थस्यैव चन्द्रस्य | ) एवं बिम्बप्रान्तक्रान्त्योः साम्यात् तत्र पातादिः । ततोऽनन्तरं यावता कालेनायनान्तं प्राप्नोति तावदाद्यं स्थित्यर्थम् । ततोऽनन्तरमयनान्तादपसर्पन् यावता कालेन तदेवाहोरात्रवृत्तं पुनः प्राप्नोति तावदन्त्यं स्थित्यर्धम्। स्थित्यधंसाधनवासना त्रैराशिकेन । तत्रेष्टघटिकाभिश्चन्द्राक प्रचालय क्रान्त्यन्तरमन्याख्यं कृतम् । तस्याद्याख्यस्य चान्यस्य यदन्तरं तदिष्टघटिकानां सम्बन्धि क्रान्त्यन्तरं भवति । यद्यनेन क्रान्त्यन्तरेणेष्टघटिका लभ्यन्ते तदाद्योनितमानैक्या धंतुल्येन कियत्य इति । यतश्चन्द्राहोरात्रवृत्तस्यायनान्तस्य चान्तरमाद्योनितं मानक्याधं वर्ततेऽत उपपन्नमाद्यान्या- न्तरभक्तं मानैक्यार्धाद्ययोस्तदा विवरम् । इष्टघटीभिः क्षुण्णमिति सवं निरवद्यम् ॥१८-२० इदानों पातप्रयोजनमाह - पात स्थितिकालान्तर्मङ्गलकृत्यं न शस्यते स्नानजपहोमदानादिकमत्रो पैति खलु वा० भा० -- स्पष्टम् ||२१| तज्ज्ञैः । वृद्धिम् ||२१| इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे पाताधिकारः । ग्रन्थसंख्या ३४० । एवमादितो ग्रन्थसंख्या ४३४५ । ॥ समाप्तोऽयं ग्रहगणिताध्यायः ॥ १. अत्र बापूदेव: यदायनान्तमितिप्रभृति चन्द्रस्येत्यन्तं केनचित् प्रक्षिप्तमिति प्रतिभाति । सि० - ४१ ३२१