पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी ग्रहगणिते अथ तदानयनस्योपपत्तिः । पातमध्यसाधने यदाद्यसंज्ञं क्रान्स्यन्तरं याश्चासकृत्कर्मणा स्फुटीकृता इष्टघटिकास्तेन ताभिश्चानुपात: । यद्याद्यतुल्येन क्रान्त्यन्तरेणंतावत्यो घटिका लभ्यन्ते तदा मार्नक्याधंतुल्येनान्तरेण किमिति । एवं त्रैराशिकेन या लभ्यन्ते स्थित्यधंघटि- कास्ता: स्थूला जातास्तत्स्फुटीकरणार्थं तात्कालिकयो: पुन: क्रान्त्यन्तरं कृतम् | तन्मानैक्यार्धासन्नं जातम् । तेन पुनरनुपातः । यद्यनेन क्रान्त्यन्तरेणेतावत्यः स्थित्यधंघटिका लभ्यन्ते तदा मानैक्यातुल्येन किमिति । एवमसकृत् तासां घटीनां स्फुटत्वमित्युपपन्नम् ॥ १५-१६ । ३२० अथ स्थित्यर्थोपपत्तिरूपं श्लोकमाह - तावत् समत्वमेव क्रान्त्योर्विवरं भवेद्यावत् | मानैक्यार्धादनं साम्याद्बिम्बैकदेशजक्रान्त्योः ।। १७ । वा० भा० - अस्यार्थो व्याख्यात एव |॥१७॥ अथ विशेषमार्यात्रयेणाह- स्वायनसन्धाविन्दोः क्रान्तिस्तत्कालभास्करक्रान्तेः । ऊना तयोस्तु विवरं मानैक्यार्धाद्य दाल्पकं भवति ।। १८ । ज्ञेयं तदैव मध्यं पातस्यापक्रमान्तरं चाद्यः । तस्मादिष्टघटीभिः प्राक् पश्चाच्चापरौ साध्यौ ।। १९ । आद्यान्यान्तरभक्तं मानैक्यार्धाद्ययोस्तदा विवरम् । इष्टघटीभिः क्षुण्णं स्थित्यर्धे स्तः पृथक् पृथक् स्पष्टे । २० । वा० भा० - अत्र भावाभावलक्षणे यदुक्तं स्वायनसन्धाविन्दो क्रान्तिस्तत्कालभास्कर- क्रान्तेरूना तदा क्रान्तिसाम्यस्याभाव इत्यस्य विशेषोऽयम् । यदोना भवति तयोः क्रान्स्योविवरं यदि मानेक्यार्थादूनं स्यात् तदास्ति पात इत्यवगन्तव्यम् । तस्य पातस्य कदा मध्यमित्येतदर्थ- माह । ज्ञेयं तदेव मध्यं पातस्येति । यस्मिन् काले चन्द्र: स्वायनसन्धि प्राप्तस्तस्मिन्नेव काले पातमध्यं ज्ञेयम् । तथा तयोः क्रान्त्योर्यदन्तरं स आद्य: कल्प्यः । ततस्तस्मात् कालादग्रतः पृष्ठ- तश्चेष्टघटिकाभिश्चालितयोः पृथक्-पृथक् क्रान्त्यन्तरे साध्ये । तावन्यसंज्ञौ भवतः । अतोऽनन्तरं चाद्यस्यान्यस्य चान्तरेण मानेंक्यार्थाद्ययो रन्तरमिष्टघटीगुणं भाज्यम् । तदेकदा स्थित्यर्धम् । एवं द्वितीयमप्यपरेणान्येन । अत्राप्यसकृत्कर्मानुक्तमध्यर्याज्ज्ञायते । अनोपपत्तिः स्वायनसन्धौ वर्तमानस्येन्दोस्तत्कालभास्करस्य च क्रान्त्यन्तरं यदि मानेक्यार्थादूनं भवति तदा स्थित्यर्थोपपत्तिवद्बिम्बे कबेशजक्रान्त्योः साम्यात् पात: केन निवार्यते । अस्त्येव पातः । किञ्च यस्मिन्नेव कालेऽयनान्तं प्राप्तश्चन्द्रस्तस्मिन्नेव काले पातमध्यम् । यतस्तस्मात् कालावग्रतः पृष्ठतश्च क्रान्त्यन्तरमधिकमधिकं भवति । अथ तस्य पातस्याद्यान्तप्रति- पादनाथ भूमौ बिम्बे विलिस्पोच्यते । तद्यथा| चन्द्रार्कों किल यदोत्तरगोलस्थौ तवा समाय