पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाताधिकारः ३१९ यनसन्धिसाधनं विना पातस्य भावाभावे गतष्यत्वे व्यभिचार: स्यात् । स तु व्यभि- चारो गोलाध्याये भाष्ये श्रीमताऽचार्येण स्पष्टमभिहितः । शेषं भाष्ये स्पष्टम् ||१०३-१४॥ श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्- भट्टाचार्यसुताद्दिवाकर इति ख्याताजनि प्राप्तवान् । यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके । सत्सिद्धान्तशिरोमणेरयमगात् पाताधिकारः स्फुटः ॥ इति नृसिंहकृतौ वासनावात्तिके ग्रहगणिताध्यायः । एवं पातमध्यमभिधायेदानीं पाता द्यन्तकालपरिज्ञानार्थमाह - मानैक्यार्धं गुणितं स्पष्ट घटीभि विभक्तमाद्येन । लब्धघटीभिर्मध्यादादिः प्रागग्रतश्च पातान्तः ।। १५ । तात्कालिकैः पृथक् पृथगाद्यं प्राग्वत् प्रसाध्य तेन भजेत् । मानैक्यार्धेन हता असकृत् स्थित्यर्धनाडिकाः स्पष्टाः ।। १६ । - वा० भा० – एवं स्पष्टा या इष्टघटिका जातास्ताभिः पातमध्यं गतं गम्यं वा । अथ ताभिघंटिकाभिश्चकाधंचक्रकालिकौ चन्द्राको प्रचाल्य पातमध्यकालिको कृत्वा तथा तयोश्चन्द्रग्रह- णोक्ता बिम्बे प्रसाध्ये । ततो मानैषधाधं प्रागांनीताभिः स्फुटाभिघंटीभिर्गुण्यं तेनाद्यसंज्ञन भाज्यम् । फलं घटिकादि ग्राह्यम् । तामिलँब्धघटिकाभिः पातमध्यकालात् पूर्वत: पात- स्याविज्ञेयः । तथा ताभिरेव लब्धघटिकाभिः पातमध्यकालादग्रतः पातस्यान्तो ज्ञेयः । ताः स्थित्यधंघटिका जाता इत्यर्थः । अथ पाताद्यन्तकालिकाः पृथक् पृथक् चन्द्र कंपाता: कार्या: । स्थित्यधंगुणा भुक्ति: षष्टिहृता यत् फलं तेन स्वस्वफलेन पातमध्यकालिका एकत्रोना अन्यत्राधिका: कार्या इत्यर्थः । ततस्तयोस्तात्कालिकयोश्चन्द्रार्कयो: क्रान्ती कृत्वा प्राग्वत् तयोरन्तरमाद्यसंज्ञ कल्पितम् । तेनाद्येन भजेत् । का: । मानैक्यार्थेन गुणिताः स्थित्यर्धनाडिका: । एवं स्पष्टा भवन्ति । ततस्ताभिघंटिकाभिस्तात्कालिकीकरणादिनाऽसकृत्कसं कार्यम् । यावत् स्थित्यर्धनाडिकाः स्थिरा भवन्ति । एवं पृथक् पृथगुत्पाद्य तदिष्टकालिकैः कृतं तद्वितीयं स्फुटं स्थित्यर्धमित्यर्थः । अत्रोपपत्तिः --- अहो यदा क्रान्तिसाम्यं तदैव पातस्तस्मात् कालात् प्रागग्रतश्च कथ- मवस्थानं पातस्य । तत्र क्रान्तिसाम्याभावात् । क्रान्तिसाम्यं नाम पातः । तत्रोच्यते । यावती बिम्बमध्यस्य क्रान्तिर्भवति सा बिम्बाधँनोनिता सती बिम्बप्रान्तस्य पाश्चात्यस्य तावती क्रान्ति- भ॑वति । बिम्बार्धेनाधिकाग्रतो बिम्बप्रान्तस्य भवति । एवं रवेश्चन्द्रस्य च । अत्र बिम्बे पृष्ठम च याम्योत्तरभावेनोच्यते । यावती रवेबिम्बपृष्ठप्रान्तक्रान्तिस्तावती यदा चन्द्रस्याग्रप्रान्तस्य क्रान्ति- भवति तदा तयोबिम्बैकदेशेन क्रान्त्योः साम्यात् पातस्यादिरिति । तदा तयोबिम्बमध्ययोर्मानं- क्याधंतुल्यमन्तरं भवति । तदनन्तरं क्रमेण गच्छतोयंदा बिम्बमध्ययोः क्रान्तिसाम्यं तदा पात- मध्यम् । तदनन्तरं रवेरग्र प्रान्तस्य चन्द्रपृष्ठप्रान्तस्य च यदा क्रान्तिसाम्यं तदा पातान्तः । यतो यावन्मानेक्यार्थादूनं क्रान्त्यन्तरं तावत् पातोऽस्तीत्यत उक्त स्थित्यधें ।