पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ सिद्धान्तशिरोमणी ग्रहगणिते मध्यमक्रान्तिः स्पष्टा क्रान्तिर्वा स्यात् । अस्यां स्पष्टक्रान्तौ चन्द्रमध्यमतुल्यरविक्रान्ति- यंदा शोध्यते तदैव शरो भवति । 'बहुतरभिन्नगोलशराच्चन्द्रमध्यमक्रान्तियंदा शोध्यते तदैव स्पष्टक्रान्तिर्भवति चन्द्रस्य | तस्याः सूर्यमध्यमक्रान्तियोगेनैव शरो भवति । अतो वक्ष्यति-- ‘तत्क्रान्त्योरेकदिशोरन्तर मैक्यं विभिन्नदिशो:' ‘कार्यं व्यतिपाताख्ये' इति । तथैव रविचन्द्रयोर्गोलभेदेऽयनैकत्वे चन्द्रमध्यमक्रा- न्त्यपेक्षया भिन्नगोलस्थबहुतरशरः चन्द्रमध्यमक्रान्त्यूनः चन्द्रस्पष्टक्रान्तिः स्यात् । इयं चन्द्रमध्यमक्रान्तितो भिन्नदिक्का भवति । अतो रविक्रान्त्यसमदिक्कैव जाता । अत्र सूर्यचन्द्रक्रान्त्योर्योगेनैव शरो भवति । अन्यथा उत्तरो नैव भवति । अत उक्तम् 'तदन्यथा वैधृते' इति स्पष्टम् । पातस्य गतगम्यज्ञानं भावाभावज्ञानं च गोलायनसन्धिवशेन । यत्र क्रान्तेर- भावः स गोलसन्धिः । यत्र क्रान्तेः परमत्वं सोऽयनसन्धिः । मध्यमं गोलायनसन्धिज्ञानं सुगममेव । चन्द्रस्पष्टगोलायनज्ञानमुच्चयते । यदा चन्द्रा सायनमेषादौ तदा स्पष्टगोल- सन्धिः कियद्भिरंशैरिति विचार्यते । तत्र गोलसन्धौ सायनचन्द्रः शून्यम् । अत्रायनांशाः पात्याः पातो योज्यः स सपातचन्द्र: स्यात् । स तु अयनांशोनितपाततुल्यो जातः । मध्यमगोलसन्धौ चन्द्रस्य स्पष्टाक्रान्तिः स्पष्टशरतुल्यैव । तत्र स्पष्टशरतुल्यस्पष्टक्रान्ते- र्यावन्तोंऽशाः तैरंशैरेव मध्यमगोलसन्धेः स्पष्टगोलसन्धिरन्तरितः स्यात् । तेषामंशानां ज्ञानार्थमुपायः । आचार्येण ब्रह्मतुल्ये पञ्चदश पञ्चदशांशानां शर- खण्डानि क्रान्तिखण्डानि सुखार्थमुक्तानि । तत्र गोलसन्धौ मध्यमक्रान्तेर्भोग्यभण्डं यमा- ङ्गरामतुल्यम् । गोलसन्धिस्थचन्द्रभुजज्यातः स्पष्टशरसाधनम् | यदि त्रिज्यातुल्यया सपातदोर्ज्यया खभमिता: शरकलाः तदेष्टायनांशोनितपातदोर्ज्यया किमिति यल्लब्धं राशिययुतग्रहयुज्यया गुणनीयं त्रिज्यया भाज्यं स्पष्टशरः स्यात् । अत्र त्रिज्या खार्क- मिता धृता । युज्या तु नवाधिकं शतम् । शरभोग्यखण्डसाधनार्थमनुपातः । त्रिज्या- तुल्यया सपातकोटिज्यया खाश्वमितं भोग्यखण्डं तदेष्टायनांशोनितपातकोटिज्यया किमिति गुणहरयोदशभिरपवर्त्ते कृते यन्निष्पद्यते तेन मृगकर्कादिस्थितेऽयनांशोनितप|ते द्विषड्रामाः युतविहीनाः सन्तः स्पष्टक्रान्तिखण्डकं भवति । मृगकर्कादिवशेनैव खण्ड- कानामुपचय इति मृगकर्कादिस्थित इत्युक्तम् । ततोऽनुपातः । यद्यनेन स्पष्टक्रान्ति- खण्डकेन पञ्चदशांशा लभ्यन्ते तदा पूर्वोक्तस्पष्टशरखण्डकेन किमिति | स्पष्टशरः पञ्चदशभिर्गुणनीयः। स्पष्टशरानयने खार्कवर्गो हरः नवाधिकं शतं गुणः खभ- तुल्योऽप्यन्यो गुणः पञ्चदशतुल्योऽप्ययं गुणोऽयनांशहीनपातदोर्ज्यायाः । अतो गुणहरौ हरचतुर्थांशेनापवर्त्य हरस्थाने चत्वारः गुणस्थाने गुणसूर्या: शेषं स्पष्टम् । स्पष्टगोला- १. वहुज्वर इति ग पु०