पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ सिद्धान्तशिरोमणी गलध्या ॥ श्रीगणेशाय नमः ॥ वा० वा० -- विश्वेश्वरं नमस्कृत्य मल्लारिं च गजाननम् । भास्करीयस्य गोलस्य वात्तिकं क्रियतेऽधुना ॥ १ ॥ कविज्ञमार्गादुपरि स्फुरन्तं समं व्रजन्तं कविना बुधेन । अधःस्थितिं चाप्यवलम्बमानमुच्चं गुरोर्भास्करमानतोऽस्मि ॥ २ ॥ अधुना मङ्गलाचरणपूर्वकं ग्रन्थारम्भं प्रतिजानीते - - सिद्धि साध्यमुपैतीति ॥१॥ अथ गोलग्रथनकारणमाह - ' मध्याद्यं घुसदां यदत्र गणितं तस्योपपत्तिं विना प्रौढिं प्रौढसभासु नैति गणको निःसंशयो न स्वयम् । गोले सा विमला करामलकवत् प्रत्यक्षतो दृश्यते तस्मादस्म्युपपत्तिबोधविधये गोलप्रबन्धोद्यतः ।। २ । वा० भा० – स्पष्टार्थम् ॥ २ ॥ वा० वा०— सहेतुकं गोलारम्भप्रयोजनमाह -- मध्याद्यमिति | गणकानां ग्रह- गणितोपपत्तिबोधविधानार्थं गोलप्रबन्धोद्यतोऽस्मीत्यर्थः । ननु ग्रहगणितशास्त्राध्ययनेन सञ्जातसमयावबोधानां बुधानां किम् उपपत्ति- ज्ञानेन गोलाध्ययनाभ्याससाध्येन फलमित्यत उक्तम्-- प्रौढि प्रौढसभासु नैति गणको निःसंशयो न स्वयमिति । शृङ्गोन्नतौ यथा अद्य कस्यां दिशि शृङ्गमुन्नतमिति विचारे विचार्यदि निर्णयो ग्रहगणितशास्त्रविषयः । कथं चन्द्रस्यैव शृङ्गरूपता, कथमद्य अस्यां दिश्येव शृङ्गमु- न्नतमिति च विचारो गोलशास्त्रगोचरस्तथा सर्वत्र ग्रहगणितप्रतिपाद्यपदार्थानां वस्तुसि- द्धयनुकूलयुक्तिप्रतिपादनं गोलविषयः । पाण्डित्यं फलम् । अन्यैर्भ्रान्तिज्ञानेनान्यथोदितान् अर्थाश्च निराकर्तुं निःसंशयत्वञ्च फलम् । अवनि-भ-ग्रहाणां संस्थान-मान-प्रतिपादकत्वे ग्रहगणितप्रतिपाद्यपदार्थस्वरूपयुक्तिप्रतिपादको ग्रन्थविशेषो गोल इति लक्षणं युक्तम् । ग्रहगणितवासनाभाष्यस्य न गोलग्रन्थता । ग्रहगणितप्रतिपाद्यलम्बनादिप- दार्थसाधनेतिकर्त्तव्यतायुक्ति प्रतिपादकत्वाल्लम्बनादिपदार्थस्वरूपयुक्तिप्रतिपादनतात्पर्या- भावाच्च । यद्यपि गोले उक्तस्वरूपाणां पदार्थानां ग्रहगणितभाष्ये स्वरूप प्रतिपादनं दृश्यते, तत्प्राञ्जलतया गोलेन प्रतिपादितमपि ग्रहगणितभाष्ये मन्दावबोधार्थं साधनेतिकर्त्तव्यताप्रतिपादनतात्पर्येणानूद्यते । एवं गोले प्रतिपादितानां पुनः प्रति- पादनमनुवाद इति । अत एव भगणोपपत्तिभाष्ये- १. अत्र श्रीपतिः -- मध्यमानयनपूर्वकं हि यत् किञ्चिदत्र गणिते प्रकीर्तितम् । गोल एव सकलं विलोक्यते हन्त तत् करतलामलोपमम् ॥ सि० शे० गो० १५ अ० ५ श्लो० ।