पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाताधिकारः ३१५ कालेन चालितो रविः । अयं तत्कालभास्करः २।७।२६। अस्य क्रान्तिदंशाधिकानि चतुर्दशशतानि १४१० । अस्याः सकाशात् स्वायनसन्धिक्रान्तिरिय १४१७ मधिकातोऽस्ति क्रान्ति साम्यम् । अत्र धोवृद्धिदपक्षे सूर्यापमादोजपदोद्भवादित्यादिलक्षणेन 'क्रान्तिसाम्याभावः । ब्रह्मगुप्तपक्षेऽपि त्रिनवगृहेन्दु क्रान्तिरित्यादिना लक्षणेन तथा त्रिनवभवनजाता क्रान्तिरित्यादिना शेखरोक्तलक्षणेन । तथा - तथा रवेरोजपदक्रान्तेश्चन्त्र युग्मपदोद्भवा । स्वल्पा चेन्न तयोः क्रान्त्योः साम्यं स्यादन्यथा भवेत् ॥ इति माधवोक्तसिद्धान्तचूडामणिलक्षणेनापि क्रान्तिसाम्याभावः । एवमन्येषां तनु- सारिणामपि पक्षे अथ प्रसङ्गेनाप्युदाहरणं तद्व्याप्तिदर्शनायोच्यते- अत्र तिग्मांशुचन्द्रपाताः । रविः ४ | चन्द्रः २ | पात: ६ । यदा किलायनांशाभावस्त देते तात्कालिका: कल्पिता: । अत्र सूर्यापमादोजपदोद्भवादित्यादिलक्षणेन क्रान्तिसाम्यमस्ति । यतः सूर्यो युग्मपदे वर्तते । यदा कदाचित् कान्तिसाम्याभावस्तदा विषमपदस्थ एवादित्ये तत्पक्षे | अन्यथौजपदोद्भवादिति विशेषणं निरर्थकमेव स्यात् । अतोऽत्र तत्पक्षेऽस्ति पात: । स च अयुग्मजश्चन्द्रमसोऽपम इत्यादिना तदुक्तलक्षणेनैष्यो जातः । अथ तदुक्तेनैवासकृत्साधन- १. लल्ल:- सूर्यापमादोजपदोद्भवाच्चेद्युग्मादिजश्चन्द्रमसो लघीयान् । अपक्रम: स्यान्न तदास्ति पातस्तदन्यथात्वेऽपमयो: समत्वम् || २. ब्रह्मगुप्त :- तिग्मांशुचन्द्रौ किल सायनांशौ चतुद्विराशी च विपातचन्द्रः | गृहाष्टकं तत्र वदाशु पातं धीवृद्धिदं त्वं यदि बोबुधोषि । त्रिनवगृहेन्दु क्रान्तिर्मेषतुलादौ ऊना ३. श्रीपतिः -- ४. लल्लः– शि० धी० ग्र० ग० महापा० ४ श्लो० । दिवाकरक्रान्तेः । चेति ॥ यावदभावस्तावद्भावोऽन्यथा ब्रा० स्फु० सि० १४ अ० ३५ श्लो० । त्रिनवभवनजाता क्रान्तिरिन्दोर्यदाल्पा दिनकृदपमत: स्यान्मेषजूकादिजातात् । नहि भवति तदा च क्रान्तिसाम्यं रवीन्द्वोर्नियतमितरथात्वे जायते सम्भवोऽस्य । सि० शि० ८ अ० ३ श्लो० । अयुग्मजश्चन्द्रमसोऽपमश्चेदपक्रमाद्भानुमतोऽधिक: स्यात् । समोद्भवो वानधिकस्तदेतो निपातकालो भवितान्यथातः ॥ शि० धी० ग्र० ग० महापा० ५ श्लो०