पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी ग्रहगणिते अथ तस्मात् कालाद्गतगम्यस्य क्रान्तिसाम्यकालस्य परिज्ञानमार्योत्तरार्धादारभ्य साधें- नार्यात्रयेणाह – ३१४ तत्क्रान्त्योरेकदिशोरन्तरमैक्यं विभिन्नदिशोः ।।११। कार्य व्यतिपाताख्ये तदन्यथा वैधृते प्रथम एवम् । गतगम्येष्टघटीभी रवीन्दुपातान् प्रचाल्य साध्योऽन्यः ।।१२। आद्यान्यकालयोरपि यदि गम्यं लक्षणं गतं यदि वा । आद्यान्ययोस्तदान्तरमतोऽन्यथैक्यं च तेन हृताः ॥ १३ ॥ आद्यगुणा नाड्योsसकृ दिष्टाः स्पष्टाः स्युरेवमेतासु । चक्रार्धचक्रकालाद्गतगम्य पातमध्यमाद्यवशात्' |॥१४॥ वा० भा० - - इदं पूर्वोदाहरणस्योपरि प्रदश्यते । तच्चोदाहरणं युक्तायनांशोंऽशशतं शशी चेदित्यादि । तत्र नवभागाधिकं राशिद्वयं रविः २१९॥ भागेनोनं त्रिभं शशी २।२६। एकविंश- तिभागाधिकं त्रिभं पात: ३।२१। एते तात्कालिका एव कल्पिताः । यतोऽनयो रविचन्द्रयोः सायनांशयोर्योगे भाधं भवति । रविः २|२०| चं ३ | १० | अत एव व्यतिपातेनात्र भवितव्यम् । 36 अत्रोदाहरणे चन्द्रः २ । १ 3 २ अत्र रवेस्तावद्गोल, यनसन्धी ११ तथा चन्द्रस्य साधितौ २९ । अस्यासन्नो योऽयनसन्धिः स गृह्यते । स्वायनसन्धाविन्दो प्रकल्प्य साधिता स्फुटा क्रान्ति: सप्तदशाधिकानि चतुर्दशशतानि १४१७ । क्रान्तिरिति सन्धितुल्यं विधुं अथ तत्कालभास्करक्रान्तिरिति । यस्मिन् काले शशी स्वायनसन्धितुल्यो जातो भविष्यति तत्र काले यावान् रविः स तत्कालभास्करः । अत्रायनसन्धिश्चन्द्रादूनोऽतः प्रागेवायनसन्धिस्यो जातः । स च कियता कालेनेति । अत्र विधो: स्वायनसन्धेश्चान्तरकलाश्चन्द्रभुतया भाज्या: । लब्धदिनें: स्वसन्धिस्थो जातो भविष्यति वेति वेदितव्यम् । अत्रोदाहरणे विधोः स्वसन्धेश्चान्तरे भागा: २०|२३| एषां कलाश्चन्द्रभुक्तया भाज्याः । अत्र चन्द्रभुक्तिः सुखायं खवसुमुनिमिता: कला: ७८० कल्पिताः । रवेश्च भुक्ति: षष्टिः ६० । अत्र चन्द्रभुक्तया ताः कला भक्ता लब्धमेकं दिनं घटिकाश्चतुरिंशत् १|३४| एतावता कालेन विधुः स्वायनसन्धिस्थः पूर्वमेव जातः । अतोऽनेन १. अत्र लल्ल:-- क्रान्त्योयुँतिरेकदिक्कयोविवरं भिन्नदिशोस्तु वैधृते । विवरं समदिक्कयोस्तयोव्यंतिपातेऽन्यदिशो: समागमः || प्रथमः स तथा परो युते रहितैरिष्टघटीफलेन तैः । गतयोरथवापि गभ्ययोविवरं संयुतिरन्यथा तयोः ॥ प्रथमेष्टघटीवघेऽमुना विहृते लब्धघटीमितेऽन्तरे । पात: प्रथमे गतागते गतगम्यः प्रथमाख्यकालतः ॥ शि० धी० ग्र० ग० महा० ६-९ श्लो० ।