पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाताधिकारः ३१३ तवनैरेष्यगतैरिति । यथासंख्येन । यद्यूना लिप्ता भक्तास्तदेष्यविवसा लब्धाः । पदाधिका: कलास्तदा गतदिवसाः । तैदिवसैरेष्यैर्गुणिता भुक्तिकलाः पृथक् स्थाप्याः । ततो दिवसाक्यव- घटीभिः पुनर्गुणिता भुक्तिः षष्टया हृता लब्धकलाभिमिश्रिताः पूर्वंकला ग्रहे योज्याः | यदि गतदिनैर्गुणिता भुक्तिस्तदा शोध्या: । एवं रवैविधोः पातस्य च तात्कालिकोकरणम् । तात्का- लिकयोश्चन्द्रार्कयोः सायनांशयोर्योोंगे भाधं चक्रं वा भवतीत्यर्थः । ततस्तयोस्तात्कालिकयो रपक्रमो साध्यौ । अत्र वासना प्रकटेव । सा यथा । यदा रविशशियोगो भाधं चक्रं वा तदासन्नः क्रान्ति साम्यस्य संभव इति यदुक्तं तस्यायमभिप्राय: । ययोर्योगे राशिषट्कं चक्रं वा भवति तयोरवश्यं भुजस्तुल्य एव स्यात् । भुजस्य तुल्यत्वावस्फुटशशिक्रान्ते रविक्रान्तेश्च तुल्यत्वमेव । किंतु स्फुट- क्रान्तिस्तस्मिन् काले रविक्रान्ते: सकाशाच्छरेणोनाधिका वा भवतीत्यर्थः । तात्कालिकीकरण- वासना सुगमेव ॥९-९३। इदानीं तस्मात् कालात् क्रान्तिसाम्यस्य गतष्यत्वप्रतिपादनार्थमाह - 'ओजपदेन्दुक्रान्तिर्महति यदि भवति तदा ज्ञेयो यातः पातस्तदन्यथा गम्यः । सूर्यापमाल्लघुः समजा ॥ १०॥ वा० भा० - ओजपदे विषमपदे वर्तमानस्येन्दोः स्फुटा क्रान्तियंदा महती भवति । कस्मात् । सूर्यापमात् । तथा यदि समपदे शशी भवति । तस्य क्रान्तियंदा सूर्यापमाल्लघुर्भवति तदा गतः पातः । यातं क्रान्तिसाम्यम् । अस्माल्लक्षणादन्यथा तर्हि गम्यम् । अत्रोपपत्तिः - रविस्तावत् स्थिरगतिश्चन्द्रोऽतीव चलस्तस्यैव क्रान्तेः प्रतिक्षणमन्यथात्वम् । अतश्चन्द्रमधिकृत्योच्यते । अत्रौजपदे वर्तमानस्य विधोः क्रान्तिरुपचये वर्तते । यथा यथा ग्रहोऽग्रतो याति तथा तथा तस्य क्रान्तिविषमपद उपचीयते । प्रथमपदस्य तृतीयपदस्य च गोलसन्धावादिः । तदग्रतस्त्रिभेऽन्तरे क्रान्ते: परमत्वम् । अतो विषमपदे वर्तमानो यथा यथाग्रतो याति तथा तथा क्रान्तिरुपचीयते । ततस्त्रिभात् परतो द्वितीयगोलसन्धि यावत् समपदम् । तत्र वर्तमानो यथा यथाग्रतो याति तथा तथा क्रान्तिरपचीयते । एवं तृतीयचतुर्थपदयोरपि । अत ओजपदे वर्तमान- स्येंन्दो: क्रान्तियंदा सूर्यापमान्महती तदाग्रे चालितस्येम्दोरतिशयेन महतो भवति । यदि यथा यथा पृष्ठतश्चात्य ते शशी तथा तथा क्रान्तिरूनैव भवति । अत ऊनया रविक्रान्त्या सह साम्यं गतमेवानु- मितम् । अथ समपदे वर्तमानस्य विधोः क्रान्तिर्लध्वी सूर्यापमाद्भवति तदापि पृष्ठतश्चालित- स्येन्दो: क्रान्तिमंहती भवति । अतो महत्या सूर्यक्रान्त्या सह साम्यं गतमिति ज्ञातम् अस्माल्लक्षणादन्यथात्वे क्रान्तिसाम्यमेष्यमित्यर्थाज्ज्ञायते । अतो गतगम्यत्वलक्षणं युक्तमुक्तम् ॥९३-१०३ । । १. अत्र श्रीपतिः - विषमपदसमुत्थेऽपक्रमे शीतरश्मेमंहति खलु गतोऽकंक्रान्तितः पातकाल: । लघुवपुषि च भावी कर्कनक्रादिजाते स भवति भविता चेत् स्यालघीयस्यतीतः ' सि० शे० ८ अ० ७ श्लो० । सि० - ४०