पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते अत्र यावदूना तावत् क्रान्त्योः साम्यं नास्तीत्यस्याभिप्रायो व्याख्यायते । यदा किल व्यथनांशो राशिषट्कं पात: । रवेरयनसन्धितुल्यः शशी २।१९ रविश्च तावान् २०१९ तदार्क- चन्द्रयोरयनसन्धिस्तुल्य एव भवति २११९ तत्र स्वायनसन्धाविन्दोः क्रान्ति: १९७० । तत्र रवेश्च क्रान्ति: १४४० । अत्र विधोः क्रान्तेरूनत्वात्क्रान्तिसाम्याभावः । तस्मात् कालादग्रतो वित्र्यंशैश्चतुर्दशभिदिनैः १३॥४०॥ रविचन्द्रपाता मध्यगत्यैव किल चालिता एतावन्तो भवन्ति । र. चं. पा. अत्र विधोरयनसन्धिद्वतीय: ८।१९।९।३५ । अत्र स्वायन- ३ २ २८ १२ २६ २८ ३१२ ८ ६ सन्धाविन्दो क्रान्ति: १९६९ । तत्र तत्कालभास्करक्रान्ति: १३८ । १६ ११ अत्रापि विधुक्रान्तेख्नत्वात् क्रान्तिसाम्याभावः । एवमस्मादपि ४ ४३ कालादग्रतस्तावत्येव दिनान्तरे क्रान्तिसाम्याभाव एव भविष्यतीति । एवं प्रथमकालात् पृष्टतश्चालनद्वये कृतेऽपि क्रान्तिसाम्याभाव एव । एवं मासद्वये क्रान्तिसाम्याभाव एव संभूतः । यदा 'गोलसन्धि- समीपस्थ: पातो भवति तदा रखेदंक्षिणायनादुत्तररायणाच्चोभयतः कियन्ति च दिनानि क्रान्ति- साम्याभाव एवेत्यर्थः ॥७॥ अथ व्यतिपातवैधृतयोर्लक्षणमाह - व्यतिपातोऽयनभेदे गोलैकत्वेऽर्कचन्द्रयोः क्रान्त्योः । साम्ये वैधृत एकायनेऽन्यदिगपक्रमसमत्वे ||८| वा० भा० – पूर्व किल साधारण्येन क्रान्तिसाम्यस्य भावाभावलक्षणमुक्तम् । तच्च क्रान्तिसाम्यस्य लक्षणविशेषेण व्यतिपात वैधृतनामयोगौ भवतः । इदं हि किल लक्षणम् । यदार्क- चन्द्रौ भिन्नायनसंस्थावे कगोलौ च भवतस्तदा यदि तयोः क्रान्तिसाम्यं भवति तदा व्यतिपातनामा योग उच्यते । यदैकायनस्थयोभिन्नगोलस्थयोश्च क्रान्तिसाम्यं भवति तथा वैधृतनामा योग उच्यते । तत् तादृशं लक्षणं कदा चेति न ज्ञायते ॥८॥ अतस्तज्ज्ञानार्थं संभवमाह - सायनरविशशियोगो भार्धं ६ चक्रं १२ यदा तदासन्नः । तत्संभवस्तदूनाधिकलिप्ता भुक्तियोगहृताः ।।९। लब्धदिनैरेष्यगतैस्तात्कालिकयोरपक्रमौ साध्यौ । वा० भा० - कस्मिश्चिद्दिने स्फुटौ रविचन्द्रौ पातश्च कार्यः । तयो रविचन्द्रयोः पृथक् पृथक् सायनांशयोर्योगो यदा भाधं भवति तदा तस्य कालस्यासन्नोऽग्रतः पृष्ठतो वा व्यतिपातस्य संभवोऽस्तीति ज्ञेयम् । यदा तु तयोर्योगश्चक्रं १२ भवति तदासन्नो वैधृतस्य संभवो ज्ञेयः । यदा योगो भाधं चक्रं वा न पूर्यते तदा यावतीभिः कलाभिः पूर्यंते ता ऊना: कलाः । यदा तु भार्धा- दधिको योगस्तदा योग साधे शोधिते याः शेषस्य कलास्ता अधिककला उच्यन्ते । एवं चक्रा- दप्यूनाधिकलिप्ता: । ताः फल | इचन्द्रार्कयोः स्फुटगतियोगेन भाज्या: । फलं दिनादिकं ग्राह्यम् । १. अत्र बापूदेवः - गोलसन्धिस्तुलादिर्ज्ञेयः ।