पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाताधिकार: ३११ खाश्वा बाणतंवोऽङ्गाक्षास्त्र्यब्धयो भानि खेचराः । इति । ७० । ६५ । ५६ । ४३ । २७ । ९ । अत्र प्रदेशे क्रन्तेः प्रथमखण्डेनैवोपचयो गोलसन्धित्वात् । ततस्तस्मिन्नेव प्रदेशे यच्छर- खण्डकं तेनाधिकेन क्रान्तिखण्डेन स्फुटक्रान्तेरुपचय: । यदि परमा क्रान्तिश्चतुविशतिभागाधिका | यद्यूना तदा शरखण्ड कोनेन क्रान्तिखण्डेनोपचयः । अतस्ते द्विरसगुणाः ३६२ तत्स्थानीयशर- खण्डकेन संस्कृता यावन्तो भवन्ति तत्प्रमाणं स्फुटक्रान्तेः खण्डं भवितुमर्हतीत्यर्थ: । तत्स्थानीय- शरखण्डकं कथं ज्ञायते तदर्थमुपाय: | सर्वत्र भुजज्याकरणे स्फुटं भोग्यखण्डक कोटिज्या त्रैराशिकेन ज्ञायते । तद्यथा | यदि त्रिज्यातुल्यया १२० कोटिज्या प्रथमं शरखण्डं सप्ततितुल्यं लभ्यते तदायनांशोनितपातस्य कोटिज्यया किमिति । अत्र गुणकभाजको दशभिरपर्वततौ । एवं कृते कोटिज्यायाः सप्त गुणो द्वादश भागहारः | फलं तत्स्थाने शरखण्डं भवति । तेन खण्डकेन द्विरसगुणा ३६२ युक्ताः कार्या: । यद्ययनांशोनितपातो मकरादिष्ट के वर्तते । यतस्तत्र वर्तमाने सति राशित्रयाधिकस्य चन्द्रस्य स्फुटा परमा क्रान्तिश्चतुर्विंशतिभागाधिकैव भवति । कर्यादिषट्कस्थित ऊनैव । तदेवं स्फुटखण्डं जातम् । तेनानुपातः । यद्येतावता खण्डेन पञ्चदश १५ धनुर्भागा विमण्डलगता: क्रान्तिमण्डलगता वा लभ्यन्ते तदा प्रागानीतशरतुल्येन किमिति । पूर्व शरसाधने दोर्ज्याया नव & गुणश्चत्वारो भागहार इति स्थितम् । इदानों पञ्चदश गुणकार: । कोटिफलोनयुता द्विषड् रामा हरः । एवं च गुणयोर्घात कृते पञ्चत्रिंशदधिकं शतं १३५ गुणः । अथ च शरः स्फुटः कर्तव्यः । तत्र सत्रिराशिग्रहद्युज्यानिध्नस्त्रिज्योद्धृतः शर: स्फुटो भवतीति । तत्रस्थश्चन्द्र : सायनांशः पूर्णं भवति । तस्य राशित्रययुतस्य धुज्या परमज्या | अतः पञ्चत्रिंश- दधिकं शतं यावत् परमद्यज्यया गुण्यते त्रिज्यया ह्रियते तावदुत्पन्ना गुणसूर्याः १२३ । एवमय.. नांशोनितपाताद्दोर्ज्या गुणसूर्यैर्गुणिता कृतंभंका | तभुजफलं कोटिफलोनयुतद्विरसगुण: ३६२ भक्तम् । लब्धैरंशैरकंगोलसन्धिरयनांशोनितपाते मेषादिस्थेऽत ऊनीक्रियते यतः पातो विलोम- गस्तत्स्थानं विषुवन्मण्डलाद्दक्षिणतः क्रान्तिवृत्ते भवति । तत्र विन्यस्तस्य विमण्डलस्य पूर्वाधं यावदुत्तरत: परमविक्षेपांशैनघते तावद्भिरंश रविगोलसन्धेः पश्चिमत एव तस्य विषुवन्मण्डलेन सह संपातो भवति । अतस्तुलादिस्थे तु विपरीतमिति । एतद्यथास्थिते गोले यथोक्तं विषुवन्मण्डलं विन्यस्य दर्शयेत् । इति सर्व निरवद्यम् ॥३- ६॥ तु अथ साधारण्येन क्रान्तिसाम्यसंभवज्ञानमाह - स्वायनसन्धाविन्दोः क्रान्तिस्तत्कालभास्करक्रान्तेः । ऊना यावत् तावत् क्रान्त्योः साम्यं तयोर्नास्ति ॥७॥ वा० भा० -- यत्र कुत्रचिद्दिने यावतीषु घटिकासु स्वायनसन्धितुल्य: स्फुटश्चन्द्रो भवति तस्य स्फुटा क्रान्तिः साध्यते । तत्र काले यावान् रविस्तस्य क्रान्तिः साध्यते । तस्या रविक्रान्तेः सकाशाद्यधूना स्फुटा शशिक्रान्तिस्तदा क्रान्त्योः साम्यं नास्तोत्यवगन्तव्यम् । अत्रेयं प्रकटैव वासना | स्वायनसन्धिस्थविधोर्या क्रान्तिः सा तस्य स्फुटा परमा । तस्मात् स्थानादग्रतः पृष्ठतो वा यावच्छशी चात्यते तावत् तस्य क्रान्तिनैव भवति । अतो- अधिकया रविक्रान्त्या सह साम्यं नास्ति । अतोऽन्यथास्तीत्युपपन्नम् ।