पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते यदा किलकादश ११ यनांशास्तदा किल नवभागाधिकं राशिद्वयं रविः | भागोनं रवि: चं पात: २ २ ९ २६ २१ शशी । अशीतिरकं: । अंशद्विशती सपातः । अत्र पात: ३।२१ | चं २ | २९ । अतोंऽशद्वि- शती सपातचन्द्रो २०० भवति । रवि: २ | २० | चन्द्रः ३ । १० । सपातः ६ | २० | प्रश्ने विपातचन्द्र इति यदुक्तं तद्धीवृद्धिदाभिप्रायेण | तत्र हि चक्राच्छोधितः पातः । अतस्तत्र विपातोऽत्र सपातस्तुल्य एव भवति । अत्रायनांशोनितपातः ३ । १० अस्य दो कोटिजीवे लघुज्यको ११८।२१ अत्र दोर्ज्या गुणसूयें: १२३ गुणिता कृतैः ४ भक्ता जातं दोःफलम् ३६२८ | ३० कोटिज्या त्वश्वे : ७ गुणिता सूर्ये: १२ भक्ता जातं कोटिफलम् १२ । १५ अनेत कोटिफलेन वर्जिता द्विषड्रामा जाता: ३४९ | ४५ । यस्मादयनांशोनितपातोऽयम् ३ | १० कर्यादौ वर्ततेऽतः फोटिफलोनैस्तैर्बाहुफले भक्ते लब्धांशाः १०।२२।२८ एभिरादित्यस्य गोलायनसन्धी ऊनीकृतौ । यतोऽयनांशोनितपातो मेषादौ वर्तते । एवं जातौ चन्द्रस्य गोलायन- सन्धी ११ । ८ । ३७ । ३२ ।२।८ । ३७ । ३२ । तथान्यौ ५।८। ३७ । ३२ ॥ ८ । ८ । ३७ । ३२ । अत्र स्वगोलसन्धिस्थस्य विधो: स्फुटेन शरेण स्फुटीकृता क्रान्ति: पूर्ण भवतीति प्रती तिः । ३१० त्रिभं शशी । एकविंशतिभागाधिकं त्रिभं पातः । ३ । एवं युक्तायनांशोंऽशशतं अत्र यथोक्ते बद्धे गोले क्रान्तिवृत्ते मेषादेः सकाशाद्विलोमं चन्द्रपातस्य राशिभागादिक गणयित्वाग्रे चिन्हं कार्यम् । एवं विमण्डलेऽपि । तयोर्मण्डलयोस्तत्र संपातं कृत्वा तस्मिन् पूर्व- तस्त्रिभेऽन्तरे साधैँश्चतुर्भिः ४ | ३० भागे: क्रान्तिमण्डल दुत्तरतस्तथा पश्चिमे त्रिभेऽन्तरे तैरेव भार्गदक्षिणतो विमण्डलं विन्यस्य स्थिरं कार्यम् । तथा कृते सति विमण्डले विषुवन्मण्डलेन सह यत्र संपातस्तत्र वन्द्रस्य गोलसन्धिः । स तु रत्रिगोलसन्धे: कियतान्तरेण वर्तते इति न ज्ञायते । किंतु रविगोलसन्धौ यावान् विक्षेपस्तावान् विज्ञायते । स च कथं तदुच्यते । रविगोल- सन्धिरयनांशोनितं चक्रम् ११/१९ । तत्रस्थस्य चन्द्रस्य शरसाधनार्थं चन्द्रस्य पातो यावत् संयोज्यते तावदयनांशोनितपातः संपद्यते । तस्य दोर्ज्या परमशर २७० गुणा त्रिज्यया १२० भाज्या | एवं सति गुणकभाजको त्रिशतापतितौ । गुणकस्थाने नव ९ । भागहारस्थाने चत्वारः ४ | फलं तत्र स्थाने चन्द्रस्य शरः | तावत्येव तत्र तस्य स्फुटा क्रान्तिः । अस्फुटक्रान्तेर- भावात् । एतावती स्फुटा क्रान्तिः कियद्भिर्भाग: संपद्यत इति ज्ञातुमशक्यम् । अत्र किल क्रान्तिसाधने छात्राणां सुखाथं स्थूलान्यपि पञ्चदशभागलभ्यानि क्रान्तिखण्डानि ब्रह्मगुप्ताद्यैः पठितानि तद्यथा- क्रान्तिकला द्विरसगुणास्त्रिखमुनयो द्विखदिशो वसुत्र्यर्काः । वसुवसुविश्वे च खकृतमनवश्च क्षेपयुतवियुताः । इति । ३६२ । ७०३ । १००२ | १२३८ । १३८८ | १४४० । तथा शरखण्डकान्यपि मया करणे कथितानि ।