पाताधिकारः अथ चन्द्रस्य विशेषमार्याचतुष्टयेनाह- अयनांशोनिपाताद्दोः कोटिज्ये लघुज्यकोत्थे ये । ते गुणसूर्यैः १२३ अश्वैः ७ गुणिते भक्ते कृतैः ४ सूर्यैः १२ ॥३॥ अयनांशोनितपाते मृगकर्यादिस्थिते द्विषामैः ३६२ । कोटिफलयुतविहीनैर्बाहुफलं भक्तमाप्तांशैः ।।४। मेषादिस्थे गोलायनसन्धी भास्करस्योनौ । तौ चन्द्रस्य स्यातां तुलादिषड्भस्थिते तु संयुक्तौ ॥५॥ गोलायनसन्ध्यन्तं पदं विधोरत्र धीमता ज्ञेयम् । रविगोलवदस्पष्टा स्पष्टा क्रान्तिः स्वगोलदिक् शशिनः ॥ ६ ॥ ३०९ वा० भा० -- यस्मिन् काले क्रान्तिसाम्यमन्वेष्यं तदा कस्मिश्चित् तदासन्नतम दिने स्फुटौ चन्द्रार्कौ पातश्च कार्यः । एवं कृते सति सूत्रावतारः । तस्य पातस्यायनांशविर्वाजितस्य लघुज्यकाभी रूपाश्विनो विशतिरङ्कचन्द्रा इत्यादिना दोर्ज्या कोटिज्या च कार्या । तत्र दोर्ज्या गुणसूर्येस्त्रयों- विशतियुतशतेन गुण्या । कोटिज्या तु सप्तभिर्गुण्या । ततो दोर्ज्या चतुभिर्भाज्या कोटिज्या तु द्वादशभिः । एवं भुजफलकोटिफले भवतः । ततो द्विषड्रामै: कोटिफलयुतविहोनैः । कथ- मित्याह । अयनांशोनितपाते मृगक क्र्यादिस्थिते । यदायनांशोनितपातो मृगादौ वर्तते तदा कोटिफलयुतैः कर्क्यादौ तु कोटिफल विहोनेस्तैर्बाहुफलं भाज्यम् । फलमंशाद्यं ग्राह्यम् । तस्मिन्न- यनांशोनितपाते मेषादिषट्के वर्तमाने तैरातभागरादित्यस्य गोलायनसन्धी ऊनीकृतौ चन्द्रस्य भवतः । तुलादिषट्के तुर्भात सन्तौ भवत: । यदाद्यगोलसन्धेः सकाशादयनसन्धिं यावत् त्रिगृहं तत् प्रथमं पदमुच्यते । ततोऽन्यत् त्रिभं द्वितीयगोलसन्ध्यन्तं द्वितीयपदम् । एवं तृतीय- चतुर्थे । तथा यदेन्दोः क्रान्तिः साध्यते तदा किल रविवत् । तथा सिद्धायाः क्रान्ते रविगोलवशेन दिक्कल्पना । न स्वगोलवशेन । ततः शरेण संस्कृता सती स्वगोलदिग्भविष्यतीति बालोऽपि जानाति । अत्रोपपत्तिः– अत्रार्कंगोलायनसन्धिभ्यामन्यौ चन्द्रस्य यत् कथितो तत्र कारणमुच्यते । रवे: किलापमण्डलविषुवन्मण्डलसंपाते गोलसन्धिः । विधोस्तु विषुवन्मण्डलविमण्डलसंपाते । यतोऽसौ विमण्डले भ्रमति । तत्संपातस्थ एव प्राच्यामुदेति । तत्रस्थस्य विधोः क्रान्तिः स्फुटेन शरेण संस्कृता सती शून्यं भवतीत्यर्थः । तदग्रतः पृष्ठतश्च त्रिभेऽन्तरे स्फुटा परमा क्रान्तिः | तत्रस्थो हि शशी यथासंख्यमुत्तरां याम्यां च परमां काष्ठां प्राप्य निवर्तते । अतस्तावेवायनसन्धी चन्द्रस्येत्युपपन्नम् । अत्रादौ तावदुदाहरणमुक्त्वा गोलोपरि प्रदश्यते । तत्तूदाहरणं प्रश्नाध्याये । तद्यथा- युक्तायनांशोंऽशशतं १०० शशी चेदशीति ८० र द्विशती २०० विपातः । चन्द्रस्तदानों वद पातमाशु धीवृद्धिदं त्वं यदि बोबुथोषि ||
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३५४
दिखावट