९५२ सिद्धान्तरिरोमणौ ग्रहगणिते
तावृदाक्षं चयुज्यावुत्तक्रान्तिवृत्तयोरन्तरं तत्रायनं वलनम् । . उपवृत्तात्रान्तिवृत्तावधि- स्तस्मिन् त्रिज्यावृतते स्यष्टवलनम् ।
ततो चुज्याऽनूपातो युक्तः । तस्मात्रमज्यया युक्तं नोत्रमज्येति 'यत्वस्व- स्तिकगे रवौ इति । यत्राक्षोऽद्गरसा इति सम्यग् वदिष्यति । भाष्ये सर्वमेवं स्फटमुक्तम् ।
सूयंसोमवशिष्ठादिसिद्धन्तेषु वलनं हक्कमं चोतक्रमज्यया कायंमिति नोक्तम् । एवं जञाकल्ये उत्रमज्यया प्रतीयते वलनसाधनं, तदपि सौरभाष्येऽस्माभिः क्रमज्यापरं सम्यग् व्याख्यातं युक्तत्वाद् बहूनामनुग्रहुस्य न्थाय्यत्वाच्च १
केचिदायनवलनानयने शरसंस्कृतां क्रान्ति परमां गृह्णन्ति तदप्ययुक्तम् । बिम्बमध्यात् स्पष्टवलनाग्रोपरिगतं सूत्रं करान्तिवृत्तप्राचीपरिलेखे तस्याः कोटिवच्छर- दानं न स्यात् । तन्मते विमण्डलप्राचीसिद्धेति वलनाग्राच्छरदानं कोटिवत्कथमपि युक्तं न स्यात् । अत एव वक्ष्यते तत्रापमण्डलं प्राची तस्या याम्योत्तरः श्रः इत्यत्र ।
केचित्तु ध्रू-वामिमुखं शारं मन्यन्ते तदप्ययुक्तम् । यदि क्रान्तिसूत् शरस्तदा ध्रुवाभिमुखः स्यात् । निरक्षे ध्रुवः क्षितिजस्थस्ततो प्रुवाभिमुखशराग्रस्थो ग्रहः "क्षितिज कदापि न जह्यादित्यायनहक्कमंसाधनं दत्तनलाञ्जलिः स्यात् । स्पष्टवल- नाग्रचिह्लात् स्पदांमोक्षशरौ कौटिवन्न देयौ, तत्पक्ष ध्ुवसूत्र एव नेयौ । मध्यञञरोऽपि स्पष्टवलनसूत्रे न देय इत्यापद्येत ।
ग्रहनक्षत्रादेः करान्तिवृत्तस्थानचिह्वमुन्मण्डले यदोदेति न तदा ग्रहुनक्षत्राचू- दयस्तस्य कदम्बाभिमुखः शराग्रे स्थितत्वात् । क्रान्तिवृत्तग्रहचिह्लोदयात् कालान्तरेण ग्रहोदयदशनं शरस्य कदम्बाभिमुखत्वमाक्षिपति । ग्रहगोले करान्तिमण्डले विमण्डले च ग्रहं दत्त्वा विमण्डलस्थग्रहोपरि दुज्यावृत्ते बद्धे हक्कर्मोपपत्तिवलिरपि बुध्यते ।
एवं क्रान्तिवृ्तग्रहस्थानं खगोलोन्मण्डलं यावन्नीयते तावद्विमण्डलस्थो ग्रहो नामित उन्नामितश्चायनपृषत्कयोरेकभिच्रकुकुभोदरयते । ध्रुवाद्िमण्डलस्थितग्रं भ्रति नीयमानं वृत्ताकारं सूत्रं करान्तिवत्ते लगति तत्र कृतहक्कमंको ग्रहः ।
क्रान्तिवृततगरहस्थानहक्कमंदत्ग्रुस्थानयोरन्तरं क्रान्तिवृ्ते भुजः । क्रान्तिवृत्त ग्रहस्थानविमण्डस्थग्रहकेन्द्रयोरन्त रं तियंग्गणितागतशरः कणः । इग््रहस्थानविमण्ड- स्थग्रहयोन्तरं क्रान्तिसंस्कारयोग्यः स्पष्टशरः कोटिः । ग्रहस्य मध्यमक्रान््यग्रे यत् युज्यावुत्तं तस्य शराग्रस्य च यदन्तरमृजु सैवेयं कोटिः । कदम्बदयं ज्ञात्वा कदम्ब- दयसुत्रे करान्तिवृत्तस्थग्रहोपरि नेये । शवं ध्रुवसूत्रेऽपि क्रान्तिवृततस्थग्रहचिह्लोपरि नेये च । ततो यदि गणितागतशरो याम्यस्तदा याम्यकदम्बसूत्रे देयः, यदोत्तरस्तदोत्तरे । एवं कदम्बसूत्रगतशराग्रस्य ध्रुवसूत्रेण यावदन्तरं तावदादायनं इक्कमेति स्पष्टम् । गोरे यद्बद्धं क्रान्तिवृत्तं तस्य केन्द्रं कदम्बः । नाडीमण्डलस्य
१. नाप्यत्वाच्चेति ग पु° पाठः । २. भृतु इति ग पु०।