पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः २४१

युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम्‌ 1 द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः ॥ तत्रान्योऽन्यं प्रीतिरित्ति समागमफलमुक्तम्‌ । "विपरीतात्मपक्षघ्नौ' इति कूट- विग्रहफलमुक्तम्‌ । युद्धं समागमो वा यचव्यक्तौ तु लक्षणेभंवतः । मवि भूभतामपि तथा फलमव्यक्तं विनिर्देश्यम्‌ ॥ इति सङ्करस्य वराहेण फलमुक्तम्‌ । मौमादीनां नक्षत्राणां चन्द्रेण संयोगः समागम एव न युद्धम्‌ । शा ङ्खुनैव- मेतां कुर्यात्संयोगसाघधनम्‌' । वराहोऽपि-- भइति शशिसमवायः कीतितो भग्रहाणाम्‌, न खलु भवति युद्धं साकमिन्दोग्रह्शंः ।। इति चन्द्रादीनां नक्षतराणाञ्च सूर्येण कालांशाभ्यन्तरे यो योगः सोऽस्तमन- संज्ञः । न समागमसंज्ञो नापि युद्धसं्ञः। सू्ंसिदधान्ते भौमादिग्रहाणामश्वन्यादिन- ्षत्राणामन्येषाञ्चोदयास्तमनमुक्तम्‌-- अथोदयास्तमययोः परिज्ञानं प्रकीत्यंते । "दिवाकरकराक्रान्तमूर्तीनामल्पतेजसाम्‌ 1

इति, अराल्पतेजसामिति वदता वक्रादिग्रहरक्षाणामन्येषाज्च तेजोमयमण्डलत्व- मभ्युपगतमिति प्रतीयते । शुक्रस्यान्यपेश्षया तेजस ^ आधिक्यमिति कदाचिच्छूक्रस्य दिवादशंनमपि संभवति । केचितत्वौपाधिकं तेजो गृहीत्वाल्पतेजसामिल्युक्तमित्याहुः । अस्मिन्नपि पक्षे चन्द्रदशंनवच्छूक्रदशंनं दिवापि संभवत्येव एतदुक्तं॑प्रसक्त्यानुप्र- सक्त्या ॥ ४२-६ । इदानीं योजनानां कला ङरणाथंमाह--

येन्दुभुमातयुयोजनानि त्रिज्याहतान्यर्कशदीन्दुकरणः ।

भक्तानि तत्कामुकरिध्िकास्तास्तेषौ क्रमान्मानकला भवन्ति ॥ ७ ।

वा० भा०- स्पष्टाथम्‌-

अन्नोपपत्तिसत्रैसारिकेन । यदि योजनात्मकव्यासाधं एतावन्ति चिम्बमानानि तदा त्रिज्या- व्यासा कियन्तीति फलानां चापानि लघुज्याभिप्रायेणोक्तानि ॥ ७ ॥


१. व° सं० १५अ० ११ इलो 1 २. वृ सं १७ अ० इरो० । ३. व° सं० १७ अ० ११ द्खो०।

४. ब्रृऽसं० १८अ० ८स्लो०। ५. सु० सि० उद० १ स्लो० । ६. तेजसाः इति ग पु० 1

सि०-३१