पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ सिद्धान्तशिरोमणौ ग्रहगणिते

मित्युच्यते । भूम्या सौरालोकस्य कियत्यपि प्रदेशेऽवरुद्धे लब्धात्मकं तम एव भूचछायाशब्देनोच्यते । योऽयमन्धकारविशेषो ग्रहुणावगतः श्रुतिस्मृत्िपुराणेति- हाससंहितादिषु राहुरि्युच्यते । "तमस्तु राहुः स्वर्भानुरिति" तस्य नामानि वदन्ति । रहयति चन्द्रार्कौ गृहीत्वा त्यजतीति राहुः । रह त्यागे । स्वराकाशे ग्रहणकाले भातीति स्वर्भानुरिति । सवदा पूणिमान्ते ग्रहणं न दृश्यते । तत्र॒ मानैकयखण्डाच्छराधिवयं हेतुः। यद्यपि भानोर्भादधंस्थितया भूछायया चन्द्रमण्डलस्य पणिमान्ते पर्वापरान्तराभावो भवत्ति तथापि विमण्डस्थितस्थचन्द्रस्य ॒क्रान्तिमण्डलस्थया भूछायया शराख्यं दक्षिणोत्तरान्तरं महदिति चन्द्रो भूच्ायां न प्रविशति । अतो सवे्भादधस्थोऽपि चन्द्रो न ग्रस्यते तमसा । मानैक्यसण्डाल्पशरे तु गरस्यत एवेति युक्तम्‌ ।

ये तु चन्द्रमण्डलं तैजसमिति वदन्ति तन्मते चन्दरहणं कथमपि न स्याद्‌ गणितगम्यं च न स्यात्‌ । येऽपि-- सममुड्भिरहश्यैरद्धितं दखभादे वियति सकखदररे मण्डलं तारकाणाम्‌ ।

इति ददयमाननक्षत्राणि चन्द्रकक्षास्थान्येेत्याहुः । तन्मते चन्द्रकक्षास्थभूभायां सौरमतप्रतिपादितजलमयमण्डलानामत्यल्पदाराण यवेर्भाद्धान्तरितानामुपपातान्नक्ष- चरग्रहणं "चन्द्रग्रहणं च कथं न स्यात्‌ । अस्मन्मते तु शुक्रादिकक्षासु शन्यन्तासु तदुध्वं- गनक्षत्रकक्षायां च भूर्माया अभावान्न ग्रहणशञङ्कावकारः । चन्द्रादीनां योजनकर्णा डमे ॥ ५१५६६ चन्द्रस्य । बुधस्य १६६१३२ शुक्रस्य ४२४०८८ रवैः ६८९३७७ भौमस्य १२९६९१९ गुरोः ८१७६५३८ शनेः २०३१९०७१ भचक्रस्य ४१२६२६५८ । सौरमते तु-

अद्ेुखेषुवसुषट्‌कमितोकंकणंश्चान्दरः खवेदयमचन््रशराख्च कौज: । शून्यद्विवेदवसुवस्विनतुल्यसंस्यो वौधस्तु नेत्रवसुनन्दकृताष्टसंस्यः । रामाग्निमद्धलकृताकंवसुपरसंस्यो जेवः सितस्य रसखाभ्रशशिष्िवेदाः । अ्वाष्टिपाणिगजरामखनेत्रसंख्यः सौरो रवेविनिहतः खरसैर्च भानाम्‌ ॥

इति केषाञ्चित्कृतिरियम्‌ ! एवं बिम्बयोजनान्यपि । चन्द्रस्य ४८० बुधस्य २९९ शुक्रस्य १११२ रेः ६५२२ मौमस्य १८८५ गुरोः १६६० शनेः २२४०६ । नक्षत्रस्यापि मौमादिग्रहबिम्बसाददयादिवम्बकलाः प्रकल्प्य ताभ्यो भचक्रकलाभिः कक्षायोज- नानि तदा विम्बकलाभिः किमिति योजनानि ज्ञेयानि । यद्वा ग्रहनकषत्रभेदयोगे बिम्बस्यदंमोक्षान्तरकालं ज्ञात्वा षष्टिवटीभिच्चन्द्रादिग्रहकलास्तदेताभिः किमिति यल्लब्धं तद्गुणं कृत्वा ताभ्यः कलाभ्यो ग्रहविम्बकलाः शोध्या नक्षत्रविम्बकलाः भवन्ति । एवं ग्रहविम्बान्यपि साधनीयानि । तस्माच्चन्द्रन्यतिरिक्तान भूछायान्तः- पाताभावान्न ग्रहणमिति सिद्धम्‌ ।


१. वाक्यमिदं ग पु० नास्ति। २. ३६ ४६ इति ग पु०।