पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिप्रश्नाधिकारः १७९

सर्वत्रेदमूह्यं तेन न क्वापि दोषः । त एव पाटीगणितवीजगणितयोरस्य ग्रहगणिते महानुपयोग इति 'खगुणरिचन्त्यर्च १ शेषविधावित्यत्रामिहितम्‌ ! वासनाभाष्येऽपि श्वक्रांशकाङ्क क्षितिजास्यवृतते"२ इत्यत्र वक्ष्यते ।

एवं यदा क्रान्तिज्या पूरणं भवति तदा “खगुणरिचन्त्यश्च शेषविधावित्यादि' गणितोक्त्या शून्यपरिभाषया भग्रासमशङ्व्वादौनि साधितान्यन्येषामनुपाताथं क्वचिन्न दुष्यतीति । अप्राप्तेऽपि समास्यमण्डलमिते यः शङ्कुरत्प्ते, सूनं सोऽपि परानुपातविये नैवं क्वचिद्‌ दुष्यतीत्यभानेऽपि समराङ्व्वादिपरानुपाताथं साघनी- यमित्युक्तम्‌ ।

अत्र, तु _समशङ्क्वादीनामसत्वेऽपि साधनं परानुपाता्थ शून्यपरिभाषोक्त- रीत्येति सर्वं शोभनम्‌ ।

यत्तं ध्वंसस्य कारणत्वं न क्वापि हृष्टं तदभ्युपगमेऽपू॑कल्पनमन्तरेणापि यागध्वंसादेव स्वगेः स्यादिति । तत्रोच्यते । अस्ति महु्ैषम्यम्‌, आसुतरविनारीयागः कालान्तरभाविफलस्‌ । अत्र क्रान्तिज्याभावकाले दिनाद्धंशङ्क्वादि साध्यत इति न कोऽपिदोषः । क्रान्तिज्यामावेऽपि कालविेषोपलक्षकः । “खगुणदिचन्त्यः' इत्यनेन प्रकारेण शुल्यक्रान्तिज्यातः साधितं दिनाद्धैश्क्वादि प्रत्यक्षत संवदत्येवातः प्रत्यक्षदृष्टे किमनुपपन्नं नाम ।

श्विविधगणितमुक्तं व्यक्तमव्यक्तसं्ञं तदवगमननिषठ"

इत्यनेनापठ्तिपाटीवीजगणितस्य ग्रहगणितपठनानधिका रादेव । श्रिभज्यकोन्मण्डलराङ्कुघाताच्चरज्ययाप्ं" सलु यटिसंजञम्‌" इति ।

गणितं बालो न जानाति । न ह्येतावता गणितमिदं क्रान्तिज्याभावे दुष्टम्‌ 1 न ह्ययं स्थाणोरपराधो यदेनमन्धो न परयति । एतेन तत्सर्वं विषुवदिने व्यभिचरत्य- स्मान्मया नोदितमिति ज्ञानाधिराजोक्तमुपक्षणीयम्‌ ।

ज्ञानाधिराजस्तु गोलानभिनज्ञतया शिरोमणिवासना भाष्यानभिज्ञतया च यत्किञ्चिदेव वदति । ।

स्पष्टगत्तिवासनाभाष्येऽभिहितं भोग्यखण्डस्पष्टीकरणफलं प्रदर्यते ! भोग्यखण्ड- स्पष्टीकरणं विना--

कक्षामध्यगतियंग्रेखाप्रतिवृत्तसम्पाते मध्यैव गतिः स्पष्टा न भवतीति" ।

“सा हतागुफलकार्मुकागमे ज्यान्तरेण विहूताद्यजीवया ।

कणं हृत्विभगुणा हतेति" । ~ ~

१. जो० सून्यपरिकमंणि १ सूत्रम्‌ । २. शि० सि० प्र° ग० ५४ इलो०। ३. गोलाध्याये गोरग्रशंसायां ७ दलो० । ४. सि०चि०प्र०्गत्रि० ३३ इलो०। ५. सि° सु० स्प० २८ इलो० ।