१७० सिद्धान्तशिरोमणौ ग्रहगणिते सप्तभिः कोटिभिर्गुण्या स्वस्वभुजेन भाज्या सप्तधा लम्बज्या भवति । सप्तधा लम्बज्या सप्तभि भु जंर्गुण्या स्वस्वकोट्या भक्ता सप्तधाक्षज्या स्यात् ।। १७३ - १९॥ वा० वा० – एषामथैकस्य तु बाहुकोटिकर्णैरित्या दिवृत्तजातं भाष्ये स्पष्टम् ।। १८-१९ । इदानीमन्यदाह - क्रान्तिज्यके कर्णगुणे विभक्ते कोटया भुजेनाप्तमिताग्रका स्यात् । आद्यं द्वितीयं समशङ्कुरेव स्यात् तद्द्धृतिः कोटिहतः श्रुतिघ्नः ||२०| वा० भा - क्रान्तिज्याक्षक्षेत्रकर्णेन गुणिता द्विः स्थाप्या | एकत्र स्वकोट्या भक्ता सत्यग्रा भवति । अन्यत्र स्वभुजेन भक्ता तत्र समशङ्कुः । एवं सप्तभिः कर्णे: सप्तधाग्रा सप्तधा च समशङ कुर्भवति । एष शङ्कुः सप्तभिः कर्णैर्गुणित: स्वस्वकोटिभक्तः सप्तधा तद्धू- तिर्भवति ॥ २० ॥ इवानीमन्यदाह - कर्णेन निघ्नी पृथगग्रका वा भुजेन भक्ता खलु तद्धृतिः स्यात् । वा० भा० – अग्रका सप्तधा सप्तभिः कर्णैर्गुण्या स्वस्वभुजेन भाज्या सप्तधा वा तद्धृति- भ॑वति । इदानीमन्यदाह - कोटाहता तद्धृतिरग्रका च कर्णेन दोष्णा क्रमशो विभक्ता ॥ २१ । द्विधा भवेद्वा समवृत्तशङ्कुः स दोर्गुणः कोटिहतोऽग्रका वा । वा० भा० - सप्तथा तद्धृतिः सप्तभिः कोटिभिर्गुण्या स्वस्वकर्णैर्भाज्या सप्तधा समशङ- कुर्भवति । एवं सप्तधांग्रा सप्तभि: कोटिभिर्गुण्या स्वस्वभुजेन भक्ता । एवं वा सप्तधा समशङ कुर्भवति । स समशङ कुः सप्तधा सप्तभिर्भुजैर्गुण्यः स्वस्वकोट्या भक्त: सप्तधाना वा भवति ।।०३-२१३ । इदानीमन्यदाह - कोटयुद्धृतं तद्भुतिखण्डमूर्ध्वं श्रुत्या हतं वा समवृत्तशङ्कुः ।। २२ । वा० भा० – कुज्योनिता तद्धृतिस्तत् तद्धृत्यूध्वंखण्डम् । तत् सप्तधा सप्तभिः कर्णैर्गुण्यं स्वस्वकोटया भक्तं सप्तधा वा समशङ कुर्भवति ॥२२॥ इदानीमन्यदाह- द्विधापमज्या भुजकोटिनिघ्नी कोटया च दोष्णा विहृताद्यमाप्तम् । कुज्या परं तद्धृतिखण्डमूर्ध्वं स्यात् तद्धृतिः संयुतिरेतयोर्वा ।। २३ ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२१५
दिखावट