सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्िप्रदनाधिकारः १५५ निरवधित्वेन थत्रोदितोऽकंः किक तत्र पूवति' लक्षणत इदमुदयस्थानं पूर्वा नेदमुदय- स्थानं पूर्वेति विनिगमकाभावेन च मिथुनान्ताहोरात्रक्षितिजसम्पातादधन्वन्ताहोरात्र- पूवंकषितिजसम्पातावध्येकस्मिन्नभीष्टवृत्ते भागं यत्रापतीत्यनेन गणितेन स्थूलग्राचीप्रती- चीज्ञानेऽपि कुण्डादिमध्यसूत्रसाधनार्थं किमप्युदयास्तसूत्रमूजुग्राह्यमिति मयोक्तम्‌ ।

ननु निरक्षदेशादितरत्र यतो हि यत्‌ प्राच्यां तस्मात्तत्प्रतीच्यां न भवेदिति वक्ष्यते, तेन नेदं प्रागपरयोः सूत्रं स्यात्‌ । यथोञ्जयिन्याः भूपरिषधिचतुर्थारो प्राच्यां यमकोटिरेव भवति । तत्रैव पूरवंक्षितिजोज्जयिनीसममण्डलसंयोगात्‌ । ल ङ्कामिवंन्तर- रेखास्थानां यावन्ति स्वस्वसममण्डलानि, यावन्ति च स्वस्वपूवंक्षितिजानि, तेषां संयोगस्तु नाडीमण्डलोन्मण्डलसम्पात एवावदयं वक्तव्यः । कुज्याभ्राक्रान्तिज्या- नामनुपलब्धस्तेषां प्राकूस्वस्तिकेऽमावग्रहणात्‌ । सायनमेषादावुदितमर्कं लङ्कायां मध्यरेलायाच्च युगपदेव पश्यतीति सायनमेषादेरुदयस्थानं क्षितिजोन्मण्डलसम्पाति भवितुमहति । सायनभेषादावुदित्मर्क लङ्कास्था मध्यरेखास्थाङ्व प्राग्रेखायामे- वोदितं पश्यन्तीत्युदयस्थान एव नाडीमण्डलसममण्डलसम्पातो भवतुमुचित्त इति चतुर्णां मण्डलानां सम्पातः प्राकूस्वस्तिकमिति व्यवहरन्ति । इदं प्राक्‌स्वस्तिकं यमकोटयामेव भवति 1 पर्चिमस्वस्तिकन्तु रोमकपत्तन॒ एव भवति । सर्वत्र निरक्षदेशे सममण्डलं नाडीमण्डलमेव ! तस्माल्लद्कातो मध्यरेखातर्च कुचतुथंभागे प्राच्यां यमकोटिरेव, प्रतीच्यां रोमकपत्तनमेव भवति । यमकोटेः प्रतीच्यां कुचतुथं- भागे रोमकपत्तनात्तावत्येवान्तरे प्राच्यां च ल्कैव भवति सममण्डलैकयात्‌ । सममण्डलयोर्भेदेन नोज्जयिनी भवेदिति निरक्षदेशादितरत्र प्रागपरसूत्रसाधनमयुक्त- मिति चेत्‌ । उच्यते

उज्जयिनीस्थदरषटुनिर्लातप्रागपरचिह्वयोः सममण्डरैक्यात्‌ प्रागपरसूत्रसाधनेन किमपि बाधकम्‌ । उज्जयिनीयमकोटथो; सममण्डलभिन्नत्वेऽपि प्राक्पर्चिमस्वस्ति- कनिबद्धसूत्रं लद्ावासिनामवन्तीस्थानां चैकमेव प्रागपरसूत्रमिति तत्साधने न कोपि दोषः । कालविपरीतपरत्वापरत्वानुमेया दिक्‌ । सू्ंस्य स्वक्षितिजोपयंवस्थान- कालो दिनम्‌ 1 स्वक्षितिजोपयंवस्थितिरेव दिनेशदशंनमित्याहुः ! तत्र दिवसे प्रेति प्रथमं अचति दर्शनं गच्छति सविता यस्मिन्‌ प्रदेशे सा प्राची दिक्‌ | गच्छति प्राप्नोतीति यावत्‌ ! प्रति पर्चादच्चत्ति यस्मिन्‌ प्रदेशे सा प्रतीची । प्रथमं स्वक्षित्ति- जोपयंवस्थानं यत्र भूभागे तत्र प्राची । चरमं स्वक्षितिजोपयंवस्थानं यत्र तत्र तीची । यमकोपपुरया लङ्कायाः पूर्वा दिक्‌, सिद्धपु््याः पर्चिमा दिक्‌ । लङ्कायां रोमकपत्तनस्य पूर्वा यमकोटयांः पश्चिमा । रोमकपत्तने सिद्धुर्याः पूर्वा, रङ्कायाः पश्चिमा ! सिद्पर्ग्या यमकोटयाः पूर्वा, रोमकपत्तनस्य॒पद्चिमा । सर्वेषां मेरु स्तरः । मेरोस्तु सर्वाण्येतानि नगराणि दक्षिणानि । सूर्योदयास्तमनानि सम्पूणं. क्षितिजवुत्ते सम्भवन्तीति पूर्वपरिचिमोत्तराण्यपि सम्भवन्तये्तानि । इदं यद्गणित- शास्त्रे प्राचीसाधनमुच्यते तन्मनुष्यदेशविषयम्‌ 1 मेरौ प्राच्यादिव्यवहारः पारि