पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते इत्यत्र भुजद्वयोऽप्यग्रा तुल्यत्वमभ्युपगम्य भुजयोरेकान्यदिशोरन्तर मैक्यं रविक्षणं शङ्क्वन्तरहृत्पलभेत्यत्र यन्त्राध्याये यावदेव भुजान्तरं तावदेव शङ्कृतला- न्तरमित्युक्तम् । कथमन्यथाग्रकयोः शङ्कृतलयोर्द्वयोरपि भेदे भुजान्तरमग्रान्तरतुल्यं शङ्कृतलान्तरतुल्यं वा स्यात् । १५४ ननु खगुणाङ्गुलपञ्चदशाङ्गुलभाकर्णकालयोर्वास्तवाग्रा भिन्नत्वेऽपि कथं मया तुल्यत्वमभ्युपगतं तदनभ्युपगमे च यावदेव भुजान्तरं तावदेव शङ्कतलान्तरमिति कथं सिद्धयेदिति चेत् । अत्रोच्यते । यदा षट्कृतगजतुल्यापमज्या तस्मिन् काले भाकर्णः खगुणाङ्गुलोऽस्य याम्यो भुजस्त्र्यङ्गुलो दृष्टः । १ पुनर्यंदा कालान्तरे षट्कृतगजतुल्यापमज्याभूत्, तस्मिन्नपि काले पञ्चदशाङ्गुलः कर्णं उत्तरो भुजोऽस्याङ्गुलपञ्चदशाङ्गुलभाकर्णकालयोर्वास्तवाक्यम् । अग्रैंक्ये तु यावदेव भुजान्तरं तावदेव शङ्कुतलान्तरमिति युक्तम् । दिवसे यद्वैकस्मिन्नपि खगुणाङ्गुलपञ्चदशाङ्गुलभाकर्णकालयोस्तदग्रान्तर- मतिस्वल्पमुत्पद्यते । यस्मिन् गृहीते त्यक्ते वा पलभाङ्गुलषष्ट्यंशेऽप्यन्तरं न पततीत्यग्रा तुल्यत्वमभ्युपगम्यत इति न किञ्चिद् बाधकम् । प्रकृतेऽग्रान्तरतुल्यभुजान्तरेणैन्द्रया- श्चालनं सम्यगुक्तम् । नन्वेवमप्युदयास्तसूत्रं सिद्धं स्यान्न प्रागपरसूत्रं, सूत्रादग्रान्तरे ततः प्राचीचिह्न - मिति वक्ष्यते । तेनोदयास्तसूत्रादग्राङ्गुलानि दत्त्वा प्रागपरसूत्रं स्यात् । तत्कथमुच्यते । उदयास्तसूत्रमेव प्रागपरसूत्रमिति | किञ्च मिथुनान्ताहोरात्रक्षितिजसम्पाताद्धन्वन्ताहोरात्रक्षितिजसम्पातावधि त्भाग्रं यत्र विशत्यपैति च ततस्तत्रापरेन्द्र्यौ दिशावित्यनेनानेकानि प्रागपरसूत्राणि स्युः, तेषां मध्ये कस्मिन् प्रागपरसूत्रे मध्यसूत्रं दत्त्वा कुण्डादिकं कार्यमिति । अत्रोच्यते। सर्वेष्वप्युदयास्तसूत्रेषु मध्यसूत्राणि प्रसार्य कुण्डानि यदि क्रियन्ते तदा सर्वाण्यपि कुण्डानि तत्तत्प्रदेशावच्छिन्नसममण्डलमध्यसूत्रापरपर्यायप्रागपरसूत्रमध्ये केन्द्राण्येव भवन्तीति सर्वमनवद्यम् । केन्द्रस्थानं द्रष्टुः स्थानमिति प्रकल्प्य केन्द्राद्व्यासार्द्धन वृत्तं कार्यम् । तस्मिन् वृत्तपरिधौ केन्द्रस्थशङ्कोयंत्र भाग्रं तस्माद्भुजाङ्गुलतुल्येऽन्तरकेन्द्रस्थस्य प्रागपरसूत्र- मिति युक्तम् । भाग्रं यत्र विशत्यपैति चेत्यनेन यत्सिद्धं प्रागपरसूत्रं तत् खलु वृत्तकेन्द्र - स्थद्रष्टुः कालान्तरीयमुदयास्तसूत्रमेव । यदा त्वेतस्यैवोदयास्तसूत्रस्य मध्ये द्रष्टु: स्थानमिति कल्प्यते तदाऽस्य प्रागपरसूत्रतां को नाम निवारयेत् । द्रष्टुः स्थानकल्पनं तु कुण्डादिस्थापनेनैवेति स्पष्टम् । अत एव सौरभाष्ये प्राचीसाधनप्रकारैभिन्नेष्व- वगतेषु प्राचीसूत्रेषु वास्तवं कीदृशं प्राचीसूत्रमित्याशङ्ङ्क्य प्राच्या विस्तृत्यायामयो- 3 १. अयमंशो नास्ति गपु० । २. मध्यमिति क ख पु० मध्य इति च गपु० | ३. सन्नेषु इति गपु०