पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः १५३ अपमजीवयोविवरमित्यत्र भिन्नगोलस्थयोः क्रान्तिज्ययोर्योगे क्रियमाणेऽ- न्तरं भवतीति स्पष्टमेव । 'धनर्णयोरन्तरमेव योगः' इत्युक्तेः । यदोदये सावनकर्का- दिस्थ: सूर्यस्तदास्य छाया मकराद्यहोरात्रवृत्तपश्चिमक्षितिजसम्पाते प्रविशति ततोऽस्त- मनफाले धन्वन्ताहोरात्रपूर्वक्षितिजसम्पाताद्दक्षिणतः पूर्वक्षितिजे निर्गच्छतीति पश्चिम- पूर्वंचिह्नयोरेकसूत्रस्थत्वं प्रत्यक्षतो न दृश्यत एव । अपेक्षिता चैकसूत्रतेति । सूर्योदया- स्तकालीनाहोरात्रवृत्तान्तररूपाग्रान्तरेण पश्चिमचिह्नं पूर्वंचिह्नं वा चालनीयम् । यत्र प्रविशति तत्र पश्चिमचिह्नमित्यवधारितेऽस्य समसूत्रस्थं कुत्र पूर्वचिह्नमित्यपेक्षिते निर्गमावगतपूर्वचिह्नमयनदिश्यग्रान्तरेण चालनीयम् । यत्र भाग्रमपैति ' तत्र पूर्वंचिह्न - मित्यवधारितेऽस्य पश्चिमचिह्नं समसूत्रस्थं कुत्रेत्यपेक्षिते प्रवेशेनावगतपश्चिमचिह्न- मग्रान्तरेणायनविपरीतदिशि चालनीयम् । एवं कृते समसूत्रता गोले प्रत्यक्षत उप- लभ्यते । चालनस्यायनक्रमलाभार्थमयनदिश्यैन्द्री चालिता स्फुटेत्युक्तम् । ननु सूर्योदयास्तकालयोरेवाग्रान्तरतुल्यं चालनं युक्तमन्यदा तु भुजान्तरतुल्यं चालनं कस्मान्न कृतमिति चेत्, उच्यते । भुजान्तरस्य लघुक्षेत्रे सर्वदाग्रान्तरतुल्यत्वान्न कृतमिति । तथाहि—सौम्याग्रकया युक्ता सौम्या पलभा सौम्यो भुजः । याम्याग्रकया वियुक्ता सौम्या पलभा सौम्यो भुजः । सौम्यपलया वियुक्ता याम्याग्रा दक्षिणो भुजः । २‘त्रिभज्याहतार्काग्रका कर्णनिघ्नी भवेत्कर्णवृत्ताग्रका व्यस्तगोला। पलच्छायया सौम्यया संस्कृता स्याद्भुजः' ॥ इति वक्ष्यते । संस्कारस्त्वेकदिशोर्योगो भिन्नदिशोरन्तरमिति प्रसिद्धः । एवं सिद्धयोः प्रवेश- निर्गमकालीनभुजयोरन्तरन्तु भुजयोरेकान्यदिशोरन्तरमैक्यमिति कार्यम् । तत्र याम्ये गोले सौम्यभुजयोरन्तरे प्राप्ते पलभयोस्तुल्यत्वान्नाशेनाग्रान्तरतुल्यं भुजान्तरम् । एकस्य याम्यगोलस्थसौम्यभुजस्यान्यस्योत्तरगोलस्थसौम्यभुजस्यापि विवरे- 'संशोध्यमानं स्वमृणत्वमेतीत्यनेन' पलभयोर्नाशे जाते भिन्नगोलस्थाना- योगतुल्यमेव भुजान्तरमुत्पद्यते । एवमेकस्य याम्यगोलस्थसौम्यभुजस्यान्यस्योत्तरगो- लस्थदक्षिणभुजस्य योगे प्राप्ते 'धनर्णयोरन्तरमेव योगः' इति पलभानाशे जातेऽग्रयोगतुल्यं भुजान्तरम् । एवं सौम्ये गोले याम्योत्तरभुजयोरैक्ये प्राप्ते पलभयोस्तुल्यत्वान्नाशेऽग्रान्तरतुल्यमेव भुजान्तरम् । छायाप्रवेशनिगंमकालयोः शङ्कतलतुल्यत्वेन बृहत्क्षेत्रेऽपि भुजयोरेकान्यदिशोरन्तरयोगावभिन्नभिन्नगोलस्था- ग्रान्तरयोगतुल्यावेवोत्पद्येते । १. मवैति इति ग पु० । ३. सि० शि० ग० त्रि० ७५ इलो० । सि० --- २० 3“भाकर्णे खगुणाङ्गुले किल सखे याम्यो भुजस्त्र्यङ्गुलोऽ- न्यस्मिन्पञ्चदशाङ्गुलेऽङ्गुलमुदग्बाहुश्च यत्रेक्षितः ॥” २. सि०शि० ग० त्रि० ७२ श्लो० ।