पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकार: १४५ काले या द्वादशाङ्गुलशङ्कच्छाया तस्याः दिनगतस्पष्टसावनघटीज्ञानं सुलभमिति वाच्यम् । तात्कालिकार्कद्युज्यादिनार्द्धान्त्यादिसापेक्षत्वेनेतरेतराश्रयदोषापत्तेः । नापि स्पष्टभुक्तितुल्यासुयुतनाक्षत्रघटीषष्टिमितमध्यमसावनावगतानुगतघटीपरि. माणेन सावनदिनगतघटीज्ञानमिति वाच्यम् । तस्य स्थूलत्वेन कार्याक्षमत्वात्, सर्वदा स्पष्टसावनस्य मध्यमसावनतुल्यत्वाभ्युपगमे पूर्वोक्तोदयान्तरकर्मसाधनं दत्तजलाञ्जलिः स्यात् । स्पष्टभुक्तेः प्रतिक्षणविलक्षणत्वेन मध्यमसावनमप्यनुगतं स्यात् । तत्रौदयिंक- स्पष्टभुक्तिग्रहणेऽपि स्थूलतैव | मध्यमभुक्तिग्रहणे नितरां स्थूलत्वमेव । मध्यमभुक्तितु- ल्यासुयुतनाक्षत्रघटीषष्टिमितमेव स्पष्टसावनमित्यभ्युपगमे बाह्वन्तरकर्माप्युच्छिन्नसंकथं स्यात्, अनुभवविरोधोप्यापद्येत । द्युनिशनिमज्जनमित्याधुनिशभक्तं घटीमानमि- त्यनेनापि सावनदिनगतघटीज्ञानं स्थूलं, सावनस्य चलत्वात् । यन्त्रेणापि सावनघटीज्ञानं न सम्भवति । 'अपवृत्तगरविचिह्नं क्षितिजे कृत्वा कुजेन संसक्ते नाडीवृत्ते बिन्दुं कृत्वा' इत्यादिना गोले रविचिह्नमिति तात्कालिकरविचिह्नस्य विवक्षितत्वात् । अन्यथा अद्यतनापवृत्तगरविचिह्नतु - लग्नं स्यात् । ल्यमेव सावनषष्टिघटीतुल्ये काले गतेऽपि श्वस्तनसूर्योदये श्वस्तनार्कोदयकालीनार्कतुल्यं श्वस्तनादये लग्नं च न स्यात् । तस्माद् यन्त्रेणापि तात्कालिकार्कंज्ञाननिरपेक्षं सावनघटीज्ञानं न सम्भवति । भवतु वा यथा- कथञ्चित्सावनघटीज्ञानं, तथापि लग्नार्थं सावनघटिका ग्रहीतुं न युज्यन्ते । शोध्या- नामुदयानां विसदृशत्वादित्युक्तम्' । अथ लग्नानयने नाक्षत्रा एव घटिका ग्राह्या इति चेत् । न सूर्योदये तात्का- लिकार्कादधिकलग्नापत्तेः। सूर्योदयद्वयान्तराले नाक्षत्रा दशपलयुताः षष्टिघटिका भवन्ति। अद्यतनसूर्योदयान्नाडीषष्ट्या दशपलयुतयार्या श्वस्तनसूर्योदयकालिकं लग्नं साध्यमानं श्वस्तनसूर्योदयकालिकार्कापरपर्यायात् तात्कालिकार्कादधिकमेव स्यात् । पलमात्रावशिष्टायां रजन्यां साध्यमानं लग्नं तात्कालिकार्कादधिकं स्यात् । न समं स्यात्, न च न्यूनं स्यात् । तत्र तु लग्नेन सूर्यादूनेनैव रजन्यां भाव्यम् । तस्मान्नाक्षत्र- घटीभिस्तात्कालिकार्काल्लग्नसाधनमयुक्तम् । अथ तात्कालिकार्कमपहायौदयिकार्कादेव नाक्षत्रघटीभिर्लंग्नं साध्यतामिति चेत्, मैवम् | यथा कृते 'तात्कालिकार्केण युतस्य राशेरिति नित्यवत् श्रुतं तात्का- लिकार्ककरणं बाध्येत । अत एव गोले शङ्कितं 'नाक्षत्रा उत सावना' इति । आस्तां तावत् स गोल इति । अस्यामाशङ्कायामुत्तरं च गोले – 'लग्नार्थंमिष्टघटिका' इति । औदयिकार्कान्नक्षत्रघटीभिर्लंग्नसाधनेन किञ्चिद्बाधकम् । नित्यवच्छ्र तं तात्कालिका- र्ककरणं बाध्येतेति चेद् बाध्यतां नाम । विशेषशास्त्रेणसामान्यशास्त्रं बाध्यत एव । १. त्युक्तामिति क ख पु० तथा त्युक्ता इति ग पु० च । २. आतामिति गपु० । सि० - १९ ३. लमसाधतेन किं इति गपु० ।