पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते किमित्यनुपातलब्धासुमितकालेनोदेति । दशपलयुतया नाक्षत्रघटीषष्टया रविमध्यम सावनं भवति । रविसावनमध्ये सावना: षष्टिघटिका एवेति प्रसिद्धम् । तत्र प्रथम दिनजादयकालिकार्के' [ ष्टसावनघटीभिः साध्यमानं लग्नं द्वितीयदिनजादय कालिकार्कतुल्यं नायातीति तात्कालिकार्का ] ल्लग्नं साध्यते सूर्योदये सूर्यतुल्यलग्न स्यापेक्षितत्वात् । नन्विदं लग्नसाधनमयुक्तम् । तथाहि - ह् – तत्र लग्नार्थं या इष्टघटिका गृह्यन्ते ता: सावना उत नाक्षत्रा वा । यदि सावनास्तदा नाक्षत्रा उदयास्ता उभ्यः शोधयितुं न युज्यन्ते, योगोऽन्तरं समजात्योर्भवतीति नियमात् । नाक्षत्रघटीषष्ट्या सम्पूर्णभच- क्रस्यैक: परिवर्ती भवतीति नाक्षत्रा उदया: । किञ्च प्रतिक्षणं रवेर्गत्यन्यत्वादुद्गमान्यत्वाच्चञ्चलस्य स्पष्टसावनदिनस्य ज्ञातु- मशक्यत्वेन तत्षष्ट्यंशपरिमाणवेद्यानां सावनघटीनां ज्ञानं प्रष्टुर्न संभवति । परिच्छेदिका हि सव्या परिच्छेद्यवस्तुगततुल्योपाधिविशेषं गृहीत्वा परिच्छेद्यं परिछिनत्ति । यथा- अयं धान्यराशिः कियत्सङ्रव्याक इत्युक्ते दशाढकमित इति । यद्वा कियदाढक- मितोऽयं धान्यराशिरित्युक्ते सार्द्धसप्ताढक मित' इत्युत्तरम् । अन्यथा द्रोणाढकप्रस्थमानैरे- कत्र राशौ कृतेऽयं राशि: कियत्सङ्ख्याक इति पृष्टे द्रोणत्रयमितोऽयमित्यापद्येत । वस्तुतस्तत्र राशावेक एव द्रोण एकेनाढकेन प्रस्थेन च युक्तोऽस्ति । तस्मात् प्रतिनाडिकं स्पष्टसावनभिन्नत्वेन सम्प्रति दिनगताः सावना दशघटिका इति विषमपरिमाणासु घटीषु दशसङ्ख्या नान्वेति । अथोच्यते । श्वः सावनदशघटिकासु लग्नं कर्त्तव्यमिति पूर्वदिवस एव श्वस्तन- सावनदशघटिकाकालीनार्कादुदयतात्कालिकीगतितः स्पष्टसावनन्दिनप्रमाणं ज्ञात्वा, 'तत्षडंशे याः नाक्षत्रघटिकास्तासु श्वस्तनसूर्योदयाद्गतासु दशसाव टिका गता इति ज्ञानं संभवत्येव, तुल्यपरिमाणत्वेन सावनासु दशसङ्ख्यान्वयोपपत्तेः । ततश्च सावनासु दशघटीषु लग्नसाधनेन किञ्चिद्बाधकं पश्याम इति । इदमप्ययुक्तमितरेतराश्रयदोषापत्तेः । दशसावनघटिकाकालिकार्कज्ञाने किल स्पष्टसावनाहोरात्रज्ञानं तत्षडंशासु ज्ञानञ्च | स्पष्टसावनाहोरात्रासु ज्ञाने तत्षडंशा सु ज्ञाने च, स्पष्टहोरात्रासुभिः स्पष्टतात्कालिकगतिकलास्तदा तत्षडंशासुभिः किमिति त्रैराशिकलब्धकला औदयिकाके देया स तात्कालिका भवति । एवं तात्कालिकार्कज्ञाने स्पष्टसावनाहोरासुज्ञानं, स्पष्टसावनाहोरात्रासुज्ञाने च तात्कालिकार्कज्ञानमित्यन्योन्याश्रयदोषः । न च यस्मिन् काले लग्नं कर्तुमिष्टं तस्मिन् १. अयमंशो नास्ति ग पुस्तके | तभ्य इति गपु० | समाढकमिति गपु० । तत्षडेशे इति क ख पु० । ५. ७. २. गृह्यते इति गपु० । ४. वर्त्ते ग पु० । ६. तात्कालिक इति गपु० ८. कालिनार्क इति क ख ग पु० ।