पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः १४३ अत्र वासना – यत्र प्रदेशे क्रान्तिमण्डलं लगति तल्लग्नमुच्यते । पूर्वक्षितिज सम्बद्धः क्रान्तिमण्डलभागो रेवतीयोगतारातो यावता राश्याद्यन्तरेण भवति तावत्प्राग्लग्नमित्युच्यते । एवं पश्चिमकुजसंसक्तोऽस्तलग्नं, दक्षिणोत्तरवृत्तसंसक्तो मध्यलग्नमिति । न च पूर्वप्रकृतसन्निहितप्रधान 'वाचकेन तच्छब्देन क्षितिजादिप्रदेश एवोच्यत इति । प्रदेशस्य सर्वदास्थिरत्वेन कालप्रतिपादकशास्त्रे तत्साधनयोगात् । नापि क्रान्तिमण्डलमेव लग्नमिति । इदमिदानीं लग्नमिति व्यवहारानुदयप्रसङ्गात् । तस्मा- द्यदा यदा यो यः क्रान्तिमण्डल राश्याद्यङ्कः क्षितिजादिसंयुक्तस्तदा तदा स स राश्या- द्यवयवो लग्नशब्देनोच्यते । पूर्वक्षितिजादिसम्बन्धात् प्राग्लग्नादिसंज्ञां लभते । इदमपि रसषड्भागाल्पाक्षांशदेशविषयम् । यावन्मनुष्यप्रचारं शास्त्रेण प्रतिपाद्यते मनुष्याधिकारत्वाच्छास्त्रस्य । मेरौ सायनं मेषादि तुलादि च हित्वा न कोऽपि राशि- क्षितिजसंसक्तो भवतीति ( द्वा ? ) दशलग्नानि न भवन्ति । एवं सूर्योदये यावान् राश्यादिस्तरणिस्तावल्लग्नम् । ततः सूर्योदयकालादाशिकलाभिरुदयासवो लभ्यन्ते तदा सूर्याधिष्ठितराशौ सूर्यभोग्यभागः किमिति प्राप्तार्कभोग्यकालमितेनेष्टकालेन सूर्या- धिष्ठितराश्यन्त एव लग्नमिति स्पष्टम् । यद्यर्कंभोग्यकालादधिक इष्टकालस्तदेष्टकाला- द्रविभोग्यकालं संशोध्य यच्छेषं तस्माद्रवियुक्तराशेरग्रिमराश्युदयाः शोध्याः । य एव राश्युदयो न शुध्यति स एव तदानीं क्षितिजसंसक्त इति स्पष्टम् । तस्य उराशेः कोऽवयवः क्षितिजसंसक्त इति तत्सम्पूर्णराश्युदयासुभिस्त्रिश- दंशास्तदा शेषासुभिः किमित्यनेन स्पष्टम् । रेवत्यन्तमधिकृत्य कः क्रान्तिमण्डलभागः क्षितिजसंसक्त इत्यपेक्षितमित्ययनांशहीनं कृतम् । क्रान्तिमण्डलनाडीमण्डलसम्पात- मवधीकृत्य । ‘मेषादिजीवाः श्रुतयोऽपवृत्तं तद्भूमिजे क्रान्तिगुणा भुजः स्युः ।' तत्कोटयश्च द्युनिशाख्यवृत्त । इति क्षेत्राणि प्रवृत्तानीति राश्युदया: सायनमेषादीनां भवन्ति, न तु निरयनानाम् । उदयवशेन लग्नसाधनमिति भुक्तभोग्यकालसाधनेऽयनांशयोजनं युक्तम्। उदयैः साध्यमानं ५ क्रान्तिमण्डलसम्पातादायाति, अपेक्षितं च रेवतीयोगतारकत इत्यय- नांशहीनं क्रियत इति स्पष्टम् । यदा समं भसूर्यावुदितौ भवतस्तस्मात्कालान्नाक्षत्रघटीषष्ट्या भमुदेति, सूर्यस्तु तस्मादपि कालाद्राशिकलाभिरुदयासवो लभ्यन्ते तदार्कभुक्तिकलाभिः १. वाचकोनत इति गपु० । ३. राश्ये गपु० । ५. साधनमिति ग पु० । २. कालाद्रसिक क ख ५० । ४. दयाशुभिः इति क ख पु० ।