पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४३ सिद्धान्तशिरोमणौ ग्रहगणिते चन्द्रोदयोऽवश्यं निर्णेतव्यः । व्रतबन्धराजाभिषेकादिषु वर्णेशशाखेशराशीश्वराणां बलशालित्वावश्यकत्वेन बलमध्ये बिम्बस्थौल्यापरपर्यायस्य रूपबलस्यौक्तत्वाद् भौमादीनामुदयास्तज्ञानमप्यावश्यकम् । ग्रहयुतौ ग्रहसमागमकालज्ञानम् | भग्रहयुतौ नक्षत्रग्रहसंयोगकालज्ञानं फलादेशार्थम् | पाताधिकारे- क्रान्तिसाम्यसमयः समीरितः सूर्यपर्वसदृशो मुनीश्वरैः । तत्र दत्तहुतजप्तपूजनं कोटिकोटिफलमाह भार्गवः ॥ इत्यर्थं पातस्थितिकालज्ञानम् । शृङ्गोन्नतौ तु संस्थानविशेषज्ञानम् । शुभफलद- संस्थानेन शुभकालज्ञानं, दुष्टसंस्थानेनाशुभकालज्ञानमित्युक्तवक्ष्यमाणाधिकारैः काल एव प्रतिपाद्यते । एवं त्रिप्रश्नाधिकारेण दिनगतशेषघटीकालप्रतिपादनमित्यशेषसारत्वा- भिधानमस्य व्यर्थमिति चेत् । तत्राह - 'दिग्देशकालावगमः' इति । अन्येष्वधिकारेषु कालावगम एव । त्रिप्रश्नेषु तु दिग्देशकालानां त्रयाणामपि ज्ञानमिति वैशिष्ट्ये नाशेषसारत्वमस्य युक्तमिति भावः । त्रयाणामपि कर्माङ्गत्वमवि- शिष्टम् ॥ १ ॥ इदानीं लग्नसाधनमाह - तात्कालिका तस्य राशेरभुक्तभागैर्गुणितोदयात् स्वात् । भोग्यासवः खाग्निहृतादवाप्ता भुक्तासवो भुक्तलवैः स्युरेवम् || २ | इष्टासुसङ्घादपनीय भोग्यांस्तदग्रतो राश्युदयांच शेषम् । अशुद्धहृत् खाग्निगुणं लवाद्यमशुद्धपूर्वैर्भवनैरजाद्यैः ॥ ३ ॥ युक्तं तनुः स्यादयनांशहीनमिष्टासवोऽल्पा यदि भोग्यकेभ्यः । त्रिंशद्गुणाः स्वोदयभाजितास्ते लब्धांशयुक्तो रविरेव लग्नम् ।। ४ । वा० भा० ७ – यस्मिन् काले लग्नं ज्ञेयं तस्मिन् काले तात्कालिकोऽर्क: सायनांश: कार्यः । तेनार्केण युतस्य राशेर्ये भोग्यांशास्तैस्तदुदयासवो गुण्यास्त्रिशता भाज्याः । ये लब्धास्ते भोग्या- सवः स्युः । अथेष्टासुभ्यो भोग्यासून् विशोध्य तदग्रतो यावन्त उदया शुध्यन्ति तावन्तः शोध्याः । ततः शेषात् खरामगुणादशुद्धोदयेन भक्ताद्यल्लञ्धमंशाद्यं तदशुद्धोदयात् पूर्व यावन्तो मेषाद्या उदयास्तावद्भी राशिभिर्युतमयनांशंश्च रहितं तल्लग्नं स्यात् । अथ यदीष्टा- सुभ्यो भोग्या न शुध्यन्ति तदेष्टासर्वांस्त्रशद्गुणास्तदुदयासुभिर्भाज्या: | फलेनांशाद्येन युतो रविर्लंग्नं स्यात् । अत्र वासना त्रैराशिकेन सुगमा ॥ २४ ॥ वा० वा० - इदानीम् - ज्योतिश्शास्त्रफलं पुराणगणकैरादेश इत्युच्यते नूनं लग्नबलाश्रित इति गोलाध्यायोक्तेः कालाल्लग्नानयमाह- "तात्कालिकार्केण" १. सि० शि० गो० गो० प्रशं० ६ इलो० । 11